वाचस्पत्यम्
मेनका || स्त्री मि—नक । १ स्वर्वेश्याभेदे शब्दर० । मेनैव स्वार्थे क । २ हिनालयप्रत्न्याम् ।
शब्दकल्पद्रुमः
मेनका || स्त्री (मन्यते इति । मन् + “मनेराशिषि च ।” इति वुन् । ततः “नशिमन्योरलिट्येत्वं वक्तव्यम् ।” ६ । ४ । १२० । इत्यत्र काशिकोक्त्या अकारस्य एत्वम् ।)
सर्व्वेश्या । इति शब्दरत्ना- वली ॥ तस्याः कन्या शकुन्तला । यथा, —
“विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्बो वीर ! किं करवाम ते ॥” इति श्रीभागवते । ९ । २० । १३ ॥ (मेनैव । मेना + स्वार्थे कन् ।)
उमामाता । यथा, “ततः प्रीतास्तु पितरस्तां ददुस्तनयां निजाम् । मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः ॥ तां मेनां हिमवाँल्लब्ध्वा प्रसादाद्दैवतेष्वथ । प्रीतिमानभवच्चासौ रराम च यथेच्छया ॥ ततो हिमाद्रिः पितृकन्यया समं सुखं सिषेवे विषयं यथेप्सितम् । अजीजनत् सा तनयास्तु मेना रूपाभियुक्ताः सुरयोषितोपमाः ॥ पुलस्त्य उवाच । मेनायां कन्यकास्तिस्रो जाता रूपगुणान्विताः । सुनाभ इति विख्यातश्चतुर्थस्तनयोऽभवत् ॥ नीलाञ्जनचयप्रख्या नीलेन्दीवरलोचना । रूपेणानुपमा काली जघन्या मेनकासुता ॥ जातास्ताः कन्यकास्तिस्रः षडब्दात् परतो मुने ! । कर्त्तुं तपः प्रयातास्ता देवास्ता ददृशुः शुभाः ॥ ततो गते कन्यके द्वे ज्ञात्वा मेना तपस्विनी । तपसो वारयामास उमे त्येवाब्रवीच्च सा ॥ तदैव माता नामास्याश्चक्रे पितृसुता शुभा । उमेत्येव हि कन्यायाः सा जगाम तपोवनम् ॥” इति वामने ७४ — ७५ अध्यायः ॥ * ॥
अपि च । “कथं गिरिसुता काली बभूव जगतां प्रसूः । दाक्षायणी त्यक्ततनुः कथमाप हरं पतिम् ॥” मार्कण्डेय उवाच । यदात्यजत्तनुं देवी पूर्ब्बं दाक्षायणी सती । तदैव मनसागच्छन्मेनकां हिमवद्गिरिम् । त्यक्तप्राणा तदा देवी भूता हिमघतः सुता ॥ शिवाविन्यस्तमनसा सप्तविंशतिवत्सरान् । निनाय मेनका देवी परमामृतिमिच्छती ॥ सप्तविंशतिवर्षन्ते जगन्माता जगन्मयी । सुप्रीता भवदत्यर्थं प्राह प्रत्यक्षतां गता ॥ श्रीदेव्युवाच । यत् प्रार्थितं त्वया देवि ! मत्तस्तत् प्रार्थयाधुना । ततः सा प्रथमं पुत्त्रशतं वव्रे यशस्विनी ॥ पश्चात्तु तनयामेकां स्वरूपगुणशालिनीम् । कुलद्वयानन्दकरीं भुवनत्रयदुर्लभाम् ॥ ततो भगवती प्राह मेनकां मुनिसन्निभाम् ॥ श्रीदेव्युवाच । शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः । सुता च तव देवानां मानुषाणाञ्च रक्षसाम् ॥ हिताय सर्व्वजगतां भविष्याम्यहमेव ते । एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत ॥ ततः सा कालिका देवी योगनिद्रा जगन्मयी । पूर्ब्बत्यक्तसतीरूपा जन्मार्थं मेनकां ययौ ॥ समयस्यानुरूपेण मेनकाजठरे शिवा । समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ वसन्तसमये देवी नवम्यां मृगयोगतः । अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात् ॥” इति कालिकापुराणे ४० अध्यायः ॥