मेलकलवण
मेलानन्दा
मेला
वाचस्पत्यम्
मेला || स्त्री मिल—णिच्—अच् टाप् । १ नीलीवृक्षे राजनि० । २ मस्याम् ३ अञ्जने ४ मेलने च मेदि० ।
शब्दकल्पद्रुमः
मेला || स्त्री (मिल् + णिच् + अङ् । टाप् ।)
मेलकः । मसिः । इति मेदिनी । ले, ४६ ॥ अञ्जनम् । इति हेमचन्द्रः ॥ महानीली । इति राजनिर्घण्टः ॥