संस्कृत-शब्दकोशः

मेषशृङ्ग मेषा

मेषशृङ्गी

शब्दकल्पद्रुमः

मेषशृङ्गी || स्त्री (मेषशृङ्ग + गौरादित्वात् ङीष् ।)
अजशृङ्गीवृक्षः । मेढाशृङ्गी इति भाषा । (यथा, सुश्रुते । १ । ३९ । “मेषशृङ्गी मातुलुङ्गी मुरुङ्गीत्यादि ॥”)
तत्पर्य्यायः । नन्दीवृक्षः २ मेषविषाणिका ३ चक्षुः ४ चक्षुर्व्वहनम् ५ मेढ्रशृङ्गी ६ गृहद्रुमा ७ । इति रत्नमाला ॥ (तथास्याः पर्य्यायो गुणाश्च । “मेषशृङ्गी विषाणी स्यान्मेषवल्ल्यजशृङ्गिका ॥ मेषशृङ्गी रसे तिक्ता वातला श्वासकासहृत् । रूक्षा पाके कटुस्तिक्ता व्रणश्लेष्माक्षिशूल- नुत् ॥ मेषशृङ्गीफलं तिक्तं कुष्ठमेहकफप्रणुत् । दीपनं स्रंसनं कासकृमिव्रणविषापहम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: