शब्दकल्पद्रुमः
मेहना || स्त्री (मेह्यते क्षार्य्यते शुक्रमस्यामिति । मिह क्षरणे + णिच् + अधिकरणे युच् । स्त्रियां टाप् ।) महिला । इति केचित् ॥ (मेहनीयम् । यथा, ऋग्वेदे । ५ । ३९ । १ । “यदिन्द्रचित्रमेहनास्ति त्वादातमद्रिवः ॥”)