संस्कृत-शब्दकोशः

मेहना मैत्त्री

मैत्त्र

वाचस्पत्यम्

मैत्त्र(त्र) ||‍ न० मित्रो देवतास्य अण् मैत्रं पायुस्तस्येदं पुनरण् । १ विष्ठोत्सर्गे “मैत्रं कर्म समाचरेत्” इति स्मृतिः । मित्रो देवताऽस्य, मित्त्रत आगतं तस्येदं वा अण् । २ अनु- राधानक्षत्रे न० । तस्य हि मित्रो देवता । ३ मित्त्रतः प्राप्ते “मैत्त्रमौद्वाहिकञ्चैव” स्मृतिः । ३ सुहृत्सम्बन्धिनि च त्रि० । मित्त्रमेव स्वार्थे प्रज्ञाद्यण् । ५ मित्त्रे ६ ब्राह्मणे च पु० त्रिका० ।



Correction: