शब्दकल्पद्रुमः
मैत्रेयिका || स्त्री मित्रयुद्धम् । इति त्रिकाण्डशेषः ॥ (मित्रयूनां भावः कर्म्म वा । मित्रयु + “गोत्र- चरणाच्छ्लाघात्याकारतदवेतेषु ।” ५ । १ । १३४ । इति वुञ् । ततः “केकयमित्रयुप्रलयानां यादे- रियः ।” ७ । ३ । २ । इति इयादेशः । यथा, “मैत्रेयिकया श्लाघते ।” इति काशिका । ७ । ३ । २ ॥)