संस्कृत-शब्दकोशः

मैथुन मैनाकस्वसृ

मैनाक

वाचस्पत्यम्

मैनाक ||‍ पु० मेनकायां भवः अण् । हिमासयसुते पर्वतभेदे जटा० ।


शब्दकल्पद्रुमः

मैनाकः || पुं, (मेनकाया अपत्यं पुमान् । मेनकायां भव इति वा । मेनका + अण् । पृषोदरादित्वात् साधुः ।)
पर्व्वतविशेषः । तत्पर्य्यायः । हिरण्य- नाभः २ सुनाभः ३ हिमवत्सुतः ४ । इति जटा- धरः ॥ स तु हिमालयस्य ज्येष्ठपुत्त्रः । यथा, —
“ततो भगवती प्राह मेनकां मुनिसन्निभाम् । स्मितपूर्ब्बं तदा तस्याः पूरयन्ती मनोरथम् ॥ श्रीदेव्युवाच । शतं पुत्त्राः संभवन्तु भवत्या वीर्य्यसंयुताः । तत्रैको बलवान् मुख्यः प्रथमं संभविष्यति ॥ एवमुक्त्वा जगद्धात्री तत्रैवान्तरधीयत । मेनका च मुदं लब्ध्वा स्वस्थानं प्रविवेश ह ॥ ततः काले तु संप्राप्ते मैनाकमचलोत्तमम् । पक्षेण सह योऽद्यापि सिन्धुमध्ये प्रवर्त्तते ॥ मेनका सुषुवे देवी देवेन्द्रं स्पर्द्धया गतम् । अन्यानूनशतं पुत्त्रान् क्रमात् सा सुषुवे च ह ॥” इति कालिकापुराणे ४० अध्यायः ॥ (दानवविशेषः । इति हरिवंशे भविष्यपर्व्वणि । २३२ । ३ ॥



Correction: