संस्कृत-शब्दकोशः

मोच मोचन

मोचक

वाचस्पत्यम्

मोचक ||‍ पु० मुच—ण्वुल् । १ मोक्षे २ कदल्यां ३ शोभाञ्जने च ४ वैराग्यवति त्रि० हेमच० ५ मुष्ककवृक्षे राजनि० ।


शब्दकल्पद्रुमः

मोचकः || पुं, (मोचयति संसारादिति । मुच् + णिच् + ण्वुल् ।)
मोक्षः । (मुञ्चति गन्धं त्वच- मिति वा । मुच् + ण्वुल् ।)
कदली । शिग्रुः । (मुञ्चति विषयानिति ।)
विरागी । इति हेमचन्द्रः । ४ । २०० ॥ मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (मुक्तिकारके, त्रि । यथा, शिवपुराणे वायुसंहितायां पूर्ब्बभागे । २ । ५१ । “अमुक्तो मोचकश्चायमकालः कालचोदकः ॥”)



Correction: