वाचस्पत्यम्
मोचन || न० मुच—णिच्—वा भावे ल्युट् । १ मुक्तौ २ मोचने दम्भे ४ शाट्ये च । मुच्यते रोगात् अनया मुच—करणे ल्युट् । ५ कण्टकार्य्याम् स्त्री जटा० ङीप् ।
शब्दकल्पद्रुमः
मोचनं || क्ली (मुच् + ल्युट् ।)
मोक्षः । (यथा, महाभारते । ५ । ८४ । २१ । “अवतीर्य्य रथात्तूर्णं कृत्वाशौचं यथाविधि । रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥”)
कल्कनम् । दम्भः । शाठ्यम् । इति मुचधातो- र्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥ (मोचयतीति । मोचि + ल्युः । मोचनकर्त्तरि, त्रि । यथा, भागवते । ६ । १३ । २३ । “धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥”)