संस्कृत-शब्दकोशः

मोद मोदन

मोदक

वाचस्पत्यम्

मोदक ||‍ पु० मोदयति मुद—णिच्—ण्वुल् । १ खाद्यभेदे (मोया) अमरः । शूद्रायां क्षत्रियाज्जाते २ वर्णसङ्करजातिभेदे (मयरा) स्मृतिः ।


शब्दकल्पद्रुमः

मोदकः || पुं, (मोदयति मिष्टान्ननिर्म्माणेनेति । मुद् + णिच् + ण्वुल् ।)
वर्णसङ्करजातिविशेषः । मयरा इति भाषा । स च शूद्रायां क्षत्त्रिया- ज्जातः । इति स्मृतिः ॥


शब्दकल्पद्रुमः

मोदकः || पुं, क्ली, (मोदयति बालादीनिति । मुद + णिच् + ण्वुल् ।)
खाद्यविशेषः । इत्यमरः । ३ । ५ । ३३ ॥ मोया इति भाषा । अस्य दान- मन्त्रो यथा, —
“मोदकं स्वादुसंयुक्तं शर्करादिविनिर्म्मितम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि ! ॥” इति दुर्गोत्सवपद्धतिः ॥ गुडः । यवासशर्करा । इति राजनिर्घण्टः ॥ शर्करादिद्वारापक्वौषधविशेषः । अस्य पूर्णवीर्य्यं षण्मासं तिष्ठति । इति सुखबोधः ॥ (यथा, —
“वटका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥ द्रवन्तु द्बिगुणं देयं मोदकेषु भिषग्वरैः ॥ द्रवं द्रवरूपद्रव्यं कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते । बलमिति कालादेरप्युपलक्षणम् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
हर्षके, त्रि । इति मेदिनी । के, १४१ ॥ (यथा, महाभारते । ७ । ३५ । ३८ । “हतारोहांश्छिन्नघण्टान् क्रव्यादगणमोद- कान् ॥”)



Correction: