वाचस्पत्यम्
मोदमोदिनी || स्त्री मोद इव मोदयति मुद—णिनि । जम्ब्वाम् राजनि० ।
शब्दकल्पद्रुमः
मोदमोदिनी || स्त्री (मोदात् मोदो महान् हर्षः सोऽस्या अस्तीति । मोदमोद + इनि । ङीप् ।) जम्बूः । इति राजनिर्घण्टः ॥