शब्दकल्पद्रुमः
मोहशास्त्रं || क्ली (मोहोत्पादकं शास्त्रमिति मध्यपदलोपिकर्म्मधारयः ।)
अविद्याजनकग्रन्थः । यथा, —
“गोपतिं प्राह विप्रेन्द्रानालोक्य भगवान् हरि । न वेदवाह्यपुरुषे पुण्यलेशोऽपि शङ्कर ! ॥ सङ्गच्छते महादेव ! धर्म्मो वेदाद्धि निर्ब्बभौ । तथापि भक्तबात्सल्याद्रक्षितव्या महेश्वर ! ॥ अस्माभिः सर्व्व एवेमे गन्तारो नरकानपि । अस्माद्वै वेदवाह्यानां रक्षणाय च पापिनाम् । विमोहनाय शास्त्राणि करिष्यावो वृषध्वज ! ॥ एवं सम्बोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥” इति कौर्म्मे १४ अध्यायः ॥