संस्कृत-शब्दकोशः

मोहशास्त्र मौकुलि

मोहिनी

वाचस्पत्यम्

मोहिनी ||‍ स्त्री मुह—णिनि । १ अप्सरीभेदे यस्याः शापात् ब्रह्मणोऽपूज्यत्वं तत्कथा ब्रह्मवै० ज० ख० ३३ अ० । अमृतमन्थनकाले दैत्यानां मोहनाय स्त्रीरूपिणि भगव- दवतारभेदे च ।


शब्दकल्पद्रुमः

मोहिनी || स्त्री (मोहयति सौन्दर्य्यादिनेति । मुह + णिच् + णिनिः । स्त्रियां ङीप् ।)
त्रिपुर- मालीपुष्पम् । इति रत्नमाला ॥ (वटपत्री । तत्पर्य्यायो यथा, —
“वटपत्री तु कथिता मोहिनी रेचनी बुधैः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
समुद्रमन्थनकाले देवानाममृतपानायासुराणां मोहनाय च भगवदवतारविशेषः । यथा, —
“धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ स्वर्व्वेश्याविशेषः । यस्याः शापात् ब्रह्मणो- ऽपूज्यत्वं जातम् । यथा, —
“यतो हससि गर्व्वेण ततोऽपूज्यो भवाचिरम् । अचिराद्दर्पभङ्गं ते करिष्यति हरिः स्वयम् ॥ निबोध शरणं ब्रह्मन् ! स्वर्व्वेश्यायाश्च साम्प्रतम् ॥ तवैव कवचं स्तोत्रं मन्त्रं गृह्णाति यो नरः । भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम् ॥ भविता वार्षिकी पूजा देवतानां युगे युगे । तव माघ्याञ्च संक्रान्त्यां न भविष्यति सा पुनः ॥ इत्युक्त्वा मोहिनी शीघ्रं जगाम मदनालयम् । तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३३ अध्यायः ॥ विस्तरस्तु ब्रह्मन्शब्दे द्रष्टव्यः ॥ (मोहकर्त्तरि त्रि । यथा, भागवते । ३ । ६ । ३५ । “अतो भागवती माया मायिनानपि मोहिनी । यत् स्वयञ्चात्मवर्त्मात्मा न वेद किमुतापरे ॥”)



Correction: