वाचस्पत्यम्
मौञ्जी || स्त्री मुञ्जस्येयम् अण् । कटिसूत्रे त्रिरावृत्तमुञ्जकृतायां मेखलायाम् मनुः ।
शब्दकल्पद्रुमः
मौञ्जी || स्त्री (मुञ्जस्येयमिति । मुञ्ज + अण् । स्त्रियां ङीप् ।)
मुञ्जनिर्म्मितमेखला ॥ (यथा, शिशुपालवधे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताम्बराधरां विडम्बयन्तं शितिवाससस्तनुम् ॥” “मुञ्जस्तृणविशेषस्तन्मयीमेखला मौञ्जी ।” इति तट्टीकायां मल्लीनाथः ॥)
यथा, —
“विप्रस्य क्षत्त्रियस्यापि मौञ्जी स्याद्दक्षिणायने । दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे ॥” मनुः । “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । क्षत्त्रियस्य च मौर्व्वी ज्यावैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति संस्कारतत्त्वम् ॥