वाचस्पत्यम्
मौञ्जीबन्ध || पु० मौञ्ज्या मेखलाया वन्धोयत्र । १ उपनयन- सस्कारे “मौञ्जीबन्धः शुभः प्राक्तश्चैत्रे मीनगते रवा- पि” ति ज्यो० । ल्युट् मौञ्जीबन्धन तत्रार्थे न० । “द्विठीयं मौञ्जीबन्धनम्” मनुः । ६ त० । २ तद्बन्धने च ।
शब्दकल्पद्रुमः
मौञ्जीबन्धः || पुं, (मौञ्ज्या बन्धः बन्धनम् ।)
मुञ्ज- मेखलाबन्धनम् । उपनयनमिति यावत् । यथा, “जन्मभादष्टमे सिंहे नीचस्थे शत्रुभे गुरौ । मौञ्चीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ ॥” इति ज्योतिर्निबन्धे नारदवचनम् ॥