वाचस्पत्यम्
मौढ्य || न० मूढस्य भावः ष्यञ । १ मोहे हेम० २ बाल्ये च ।
शब्दकल्पद्रुमः
मौढ्यं || क्ली (मूढस्य भावःकर्म्म वा । मूढ + “गुण- वचनब्राह्मणादीभ्यः कर्म्मणि च ।” ५ । १ । १२४ । इति ष्यञ् ।)
मोहः । इति हेमचन्द्रः । २ । २३४ ॥ (यथा, श्रीमद्भागवते । ३ । २९ । २२ । “योमां सर्व्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्च्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥” पुं, मूढस्यापत्यम् । मूढ + “कुर्व्वादिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः । मूढपुत्त्रः । इति व्याकरणम् ॥)