संस्कृत-शब्दकोशः

मौद्गीन मौनिन्

मौन

वाचस्पत्यम्

मौन ||‍ न० मुनेर्भावः । वाग्व्यापारराहित्ये “उच्चारे मैथुने चैव प्रस्नावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत्” इति स्मृतिः ।


शब्दकल्पद्रुमः

मौनं || क्ली (मुनेर्भाव इति । मुनि + अण् ।)
शब्द- प्रयोगराहित्यम् ॥ तत्पर्य्यायः । अभाषणम् २ । तूष्णीम् ३ तूष्णीकाम् ४ । इत्यमरः । २ । ७ । ३६ ॥ (यथा, रघुवंशे । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥”)
कर्म्मविशेषे मौनाचरणं यथा, —
“उच्चारे मैथुने चैव प्रस्रावे दन्तधावने । स्नाने भोजनकाले च षट्सु मौनं समाचरेत् ॥” इति तिथ्यादितत्त्वम् ॥



Correction: