वाचस्पत्यम्
मौनिन् || त्रि० मौनमस्त्यस्व इनि । १ वाग्व्यापाररहिते । २ मुनौ पु० जटा० ।
शब्दकल्पद्रुमः
मौनी || [न्] पुं, (मौनमस्यास्तीति । मौन + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
मुनिः । इति जटाधरः ॥ (यथा, मार्कण्डेये । ७५ । ३९ । “ततः स चिन्तथामास राजा जामातृकारणम् । विवेद च न तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥”)
मौनयुक्ते, त्रि । यथा, —
“सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् । गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥ एतच्च मौनमरुणोदयमारभ्य स्नानपर्य्यन्तं कार्य्यं न तु स्नानकालमात्रे ।” इति तिथ्यादितत्त्वम् ॥