वाचस्पत्यम्
मौरजिक || त्रि० मुरजस्तद्वादनं शिल्पमस्य ठक् । मृदङ्क- वादनशीले अमरः ।
शब्दकल्पद्रुमः
मौरजिकः || त्रि (मुरजस्तद्वादनं शिल्पमस्य । मुरज + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।) मुरजवादकः । इत्यमरः । २ । १० । १३ ॥