वाचस्पत्यम्
मौर्ख्य || न० मूर्खस्य भावः ष्यञ् । १ जाड्ये हेमच० ३ मूर्खतायाञ्च
शब्दकल्पद्रुमः
मौर्ख्यं || क्ली (मूर्खस्य भावः । मूर्ख + “वर्णदृढा- दिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।)
जाड्यम् । इति हेमचन्द्रः । २ । २२६ ॥ (यथा, सुश्रुते शारीरस्थाने ४ अः । “अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता ॥”)