वाचस्पत्यम्
मौर्वी || स्त्री मूर्वा लता तत्तन्तुना निर्वृत्ता अण् । १ धनुर्गुणे अमरः । २ अजशृङ्ग्याञ्च रत्नमा० ।
शब्दकल्पद्रुमः
मौर्व्वी || स्त्री (मूर्व्वाया विकारः । मूर्व्वा + “अव- यवे च प्राण्यौषधिवृक्षेभ्यः ।” ४ । ३ । १३५ । इति अण् । ङीप् ।)
धनुर्गुणः । इत्यमरः । २ । ८ । ८५ । (यथा, रघुः । १ । १९ । “शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी धनुषि चातता ॥” अजशृङ्गी । इति रत्नमाला ॥ कॐगा इति भाषा ॥ (मूर्व्वामयी । यथा, पनौ । २ । ४२ । “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । क्षत्त्रियस्य तु मौर्व्वी ज्या वैश्यस्य शणता- न्तवी ॥”)