वाचस्पत्यम्
म्लेच्छकन्द || पु० म्लेच्छप्रियः कन्दः शा० त० । लशुने राजनि०
शब्दकल्पद्रुमः
म्लेच्छकन्दः || पुं, (म्लेच्छप्रियः कन्द इति मध्यपद लोपी कर्म्मधारयः ।)
लशुनम् । इति राज- निर्घण्टः ॥ (तस्य पर्य्यायो यथा, —
“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च पवनेष्टो रसोनकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)