संस्कृत-शब्दकोशः

म्लुन्च म्लेच्छकन्द

म्लेच्छ

वाचस्पत्यम्

म्लेच्छ ||‍ अपशब्दे वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् । म्लेच्छयति ते म्लेच्छति अमम्लेच्छत् त अम्लेच्छीत्


वाचस्पत्यम्

म्लेच्छ ||‍ पु० म्लेच्छ—घञ् । १ अपशब्दे “म्लेच्छोह वा नाम यदप्रशब्द” इति श्रुतिः । कर्त्तरि अच् । २ पामरजातौ, ३ नीचजातौ च पुंस्त्री० स्त्रियां ङीष् “गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्चाचारविहीनश्च म्लेच्छ इत्यभिधीयते” बौधायनः । ४ पापरते त्रि० मेदि० । ५ हिङ्गुले न० राजनि० ।


शब्दकल्पद्रुमः

म्लेच्छ || कि देश्योक्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- वा भ्वा०-पर०-अक०-सक० च-सेट् ।)
देश्या ग्राम्या उक्तिर्देश्योक्तिरसंस्कृतकथनमित्यर्थः । कि, म्लेच्छयति म्लेच्छति मूढः । अन्तर्विद्यामसौ विद्बान्न म्लेच्छति धृतव्रत इति हलायुधः ॥ अनेकार्थत्वादव्यक्तशब्देऽपि । तथा चामरः । अथ म्लिष्टमविस्पष्टमिति । म्लेच्छ व्यक्तायां वाचि इति प्राञ्चः । तत्र रमानाथस्तु । म्लेच्छति वटु- र्व्यक्तं वदतीत्यर्थः । अव्यक्तायामिति पाठे कुत्- सितायां वाचीत्यर्थः । ‘तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ॥’ इति भाष्यवचनेन नञोऽप्राशस्त्यार्थत्वात् इति व्याख्यानाय हलायुधोक्तमुदाहृतवान् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

म्लेच्छं || क्ली (म्लेच्छस्तद्देशः उत्पत्तिस्थानत्वेना- स्त्यस्य । अर्शआद्यच् ।)
हिङ्गुलम् । इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायः । “हिङ्गुलन्दरदं म्लेच्छमिङ्गुलञ्चूर्णपारदम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

म्लेच्छः || पुं, (म्लेच्छयति वा म्लेच्छति असंस्कृतं वदतीति । म्लेच्छ् + अच् ।)
किरातशवरपुलि- न्दादिजातिः । इत्यमरः ॥ पामरमेदः । पाप- रक्तः । अपभाषणम् । इति मेदिनी । छे, ६ ॥ म्लेच्छादीनां सर्व्वधर्म्मराहित्यमुक्तं यथा, हरि- वंशे । १४ । १५ — १९ । “सगरः स्वां प्रतिज्ञाञ्च गुरोर्व्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । जवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥ पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका जवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलसप्याः समहिषा दार्व्वाश्चोलाः सकेरलाः । सर्व्वे ते क्षत्त्रियास्तात धर्म्मस्तेषां निराकृतः ॥ वशिष्ठवचनाद्राजन् सगरेण महात्मना ॥” शकानां शकदेशोद्भवानां क्षत्त्रियाणाम् । एवं जवनादीनामिति । अत्र जवनशब्दस्तद्देशोद्भव- वाची चवर्गतृतीयादिः । जवनो देशवेगिनो- रिति त्रिकाण्डशेषाभिधानदर्शनात् ॥ * ॥
तेषां म्लेच्छत्वमप्युक्तं विष्णुपुराणे । तथाकृतान् जवना- दीनुपक्रम्य ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं ययुरिति । बौधायनः । “गोमांसखादको यश्च विरुद्धं बहु भाषते । सर्व्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
अपिच । देवयान्यां ययातेर्द्वौ पुत्त्रौ यदुः तुर्चसुश्च । शर्म्मिष्ठायां त्रयः पुत्त्राः द्रुह्युः अनुः पुरुश्च । तत्र यदुप्रभृतयश्चत्वारः पितुराज्ञाहेलनं कृत- वन्तः पित्रा शप्ताः । ज्येष्ठपुत्त्रं यदुं शशाप तव वंशे राजा चक्रवर्त्ती मा भूदिति । तुर्व्वसु- द्रुह्य्वनून् शशाप युष्माकं वंश्या वेदवाह्या म्लेच्छा भविष्यन्ति । इति श्रीभागवतमतम् ॥ * ॥
(“असृजत् पह्नवान् पुच्छात् प्रस्रावाद्द्राविडान् शकान् । योनिदेशाच्च यवनान् शकृतः शवरान् बहून् ॥ मूत्रतश्चासृजत् काञ्चीञ्छरभांश्चैव पार्श्वतः पौण्ड्रान् किरातान् यवनान् सिंहलान् वर्व्वरान् खशान् ॥ चियुकांश्च पुलिन्दांश्च चीनान् हूनान् सके- रलान् । ससर्ज्ज फेनतः सा गौर्म्लेच्छान् बहुविधानपि ॥” सा वशिष्ठस्य धेनुः । इति महाभारते । १ । १७६ । ३५ — ३७ ॥)
अन्यच्च । “शकजवनकाम्बोज- पारदपह्नवा हन्यमानास्तत्कुलगुरुं वशिष्ठं शरणं ययुः । अथैतान् वशिष्ठो जीवन्मृतकान् कृत्वा सगरमाह । वत्स वत्सालमेभिर्जीवन्मृत- कैरनुसृतैः । एते च मयैव त्वत्प्रतिज्ञापालनाय निजधर्म्मद्बिजसङ्गपरित्यागं कारिताः । स तथेति तद्गुरुवचनमभिनन्द्य तेषां वेशान्य- त्वमकारयत् । जवनान्मुण्डितशिरसोऽर्द्धमुण्डान् शकान् प्रलम्बकेशान् पारदान् पह्नवांश्च श्मश्रु- धरान्निःस्वाध्यायवषट्कारानेतानन्यांश्च क्षत्त्रि- यांश्चकार । ते चात्मधर्म्मपरित्यागाद्ब्राह्मणैश्च परित्यक्ता म्लेच्छतां ययुः ।” इति विष्णुपुराणे । ४ । ३ । १८ — २१ ॥ * ॥
प्रकारान्तरेण तस्योत्- पत्तिर्यया, — सूत उवाच । “वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः । मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी ॥ सुतीर्था नाम तस्यास्तु वेनो नाम सुतः पुरा । अधर्म्मंनिरतः कामी बलवान् वसुधाधिपः । लोकेऽप्यधर्म्मकृज्जातः परभार्य्यापहारकः ॥ धर्म्मचारप्रसिद्ध्यर्थं जगतोऽस्य महर्षिभिः । अनुनीतोऽपि न ददावनुक्षां स यदा ततः ॥ शापेन मारयित्वैनमराजकभयार्द्दिताः । ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्भषाः ॥ तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः । शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः ॥” इति मत्स्यपुराणे । १० । ३ — ८ ॥ * ॥
म्लेच्छभाषाभ्यासनिषेधो यथा, —
“न सातयेदिष्टकाभिः फलानि वै फलेन तु । न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥” इति कौर्म्म्ये उपविभागे १५ अध्यायः ॥ * ॥
तस्य मध्यमा तामसी गतिर्यथा, मानवे । १२ । ४३ । “हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः । सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥” (मन्त्रणाकाले म्लेच्छापसारणमुक्तं यथा, मनु- संहितायाम् । ७ । १४९ । “जडमूकान्धवधिरांस्तैर्य्यग्योनान् वयोऽति- गान् । स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसार- येत् ॥” “अथवा एवंविधा मन्त्रिणो न कर्त्तव्याः । बुद्धि- विभ्रमसम्भवात् ।” इति तद्भाष्ये मेधातिथिः ॥ म्लेच्छानां पशुधर्म्मित्वम् । यथा, महाभारते । १ । ८४ । १५ । “गुरुदारप्रसक्तेषु तिर्य्यग्योनिगतेषु च । पशुधर्म्मिषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥”)



Correction: