वाचस्पत्यम्
म्लेच्छभोजन || न० म्लेच्छैर्भुज्यते भुज—कर्मणि ल्युट् । १ यावके अन्नभेदे शब्दर० । २ गोधूमे पु० त्रिका० ।
शब्दकल्पद्रुमः
म्लेच्छभोजनं || क्ली (भुज्यते यदिति । भुज् + कर्म्मणि ल्युट् । ततो म्लेच्छानां भोजनम् ।)
यावकः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
म्लेच्छभोजनः || पुं, (भुज्यतेऽसौ इति । भुज् + ल्युट् । म्लेच्छानां भोजनः । (गोधूमः । इति त्रिकाण्डशेषः ॥