वाचस्पत्यम्
म्लेच्छदेश || पु० म्लेच्छाधारो देशः । चातुर्वर्ण्याचाररहिते देशे अमरः । “चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न वि- द्यते । म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततःपरम्” ।
शब्दकल्पद्रुमः
म्लेच्छदेशः || पुं, (म्लेच्छानां देशः म्लेच्छप्रधानो देशो वा ।)
चातुर्व्वर्ण्यव्यवस्थादिरहित- स्थानम् । तत्पर्य्यायः । प्रत्यन्तः २ । इत्यमरः । २ । १ । ७ ॥ भारतवर्षस्यान्तं प्रतिगः प्रत्यन्तः । म्लेच्छति शिष्टाचारहीनो भवत्यत्र म्लेच्छः अल् । स चासौ देशश्चेति म्लेच्छदेशः । किंवा म्लेच्छयन्ति असंस्कृतं वदन्ति शिष्टा- चारहीना भवन्तीति वा पचाद्यचि म्लेच्छा नीचजातयः तेषां देशो म्लेच्छदेशः । भारतवर्ष- स्यान्तः शिष्टाचाररहितः कामरूपवङ्गादिः । उक्तञ्च । चातुर्व्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततः पर- मिति ॥” इति भरतः ॥ (अपि च, मनुः । २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततःपरम् ॥”)