वाचस्पत्यम्
य || पु० या—ड । १ वायौ २ यशसि ३ योगे, ४ गतौ च ५ यातरि त्रि० शब्दरत्ना० । यम—ड । ६ संयमे । ७ आदिलघु- शेषगुरुके जलदैवते लक्ष्मीफलके यगणे च ।
वाचस्पत्यम्
य || यकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्तःस्थवर्णभेदः तस्योच्चारणस्थानं तालु जिह्वाग्रेख तालुन ईषत्स्पर्शेनोच्चारणादस्योच्चारणे ईषत्स्पर्श आभ्य- न्तरप्रयत्नः “अचोऽस्पृष्टायणस्त्वीषत्” शिक्षोक्तः । वाह्य- प्रयत्नाः संवारनादघोषा अल्पप्राणश्च । वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा “यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रोधूमार्च्चिः प्राणिसेवकः । शङ्का भ्रमो जटी लोला वायुवेगी यशस्करी । सङ्कर्षणः क्षपा बालो हृदयम् कपिला प्रभा । आग्नेयोव्यापकस्त्यागो मोहोयाता प्रमा सुखम् । चण्डः सर्वेश्वरी धूम्रा चामु- ण्डा सुमुखेश्वरी । त्वगात्मा मलयोमात्रा हंसिनी भृङ्गिनायकः । ङे नमः शोषकोमीनोधनिष्ठानङ्गवेदिनी । शिष्टः सोमः पङ्क्तिनामा पापहा प्राणसंज्ञकः” । अस्याधिष्ठातृदेवताध्यानं यथा “धूम्रवर्णां महारौद्रीं षङ्- भुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां नानालङ्कार- भूषिताम् । महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् । एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत्” । अस्य ध्येयस्वरूपं यथा “यकारं शृणु चार्वङ्गि! चतुष्कोण- मयं सदा । पुलालधूमसङ्काशं स्वयं परमकुण्डलीम् । पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं तथा । प्रणमामि सदा वर्णं मूर्त्तिमन्मोक्षमव्ययम्” कामधेनुतन्त्रम् । मातृकन्यासे अस्य हृदयन्यास्यता । काव्यादौ अस्य प्रथमप्रयोगे लक्ष्मीलाभः फलम् “यो लक्ष्मीं रस्तु दाहम्” वृ० र० टी० ।
शब्दकल्पद्रुमः
य || अन्तःस्थयकारः । स च षड्विंशहलवर्णः ॥ अस्योच्चारणस्थानं तालु । (यदुक्तं सिद्धान्त- कौमुद्याम् । “इचुयशानां तालु ॥” तथा च शिक्षायाम् । १७ । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”)
तस्य स्वरूपं यथा, —
“यकारं शृणु चार्व्वङ्गि ! चतुष्कोणमयं सदा । पलालधूमसङ्काशं स्वयं परमकुण्डली ॥ पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा । प्रणमामि सदा वर्णं मूर्त्तिमन्मोक्षमव्ययम् ॥” इति कामधेनुतन्त्रे ५ पटलः ॥ वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा, —
“ऊर्द्ध्वाधःक्रमतो रेखा चतुष्कोणमयी शुभा । नारायणेशविधयस्तासु तिष्ठन्ति नित्यशः ॥ मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रचक्ष्यते ॥” तस्य ध्यानं यथा, —
“धूम्रवर्णां महारौद्रीं षड्भुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां नानालङ्कारभूषिताम् ॥ महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् । एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत् ॥” * ॥
तत्प्रणाममन्त्रो यथा, —
“त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । प्रणमामि सदा वर्णं शक्तिमामोक्षमव्ययम् ॥” इति वर्णोद्धारतन्त्रम् ॥ अस्य नामानि यथा, —
“यो वाणी वसुधा वायुर्व्विकृतिः पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥ शङ्खाभ्रमो जटी लोला वायुवेगी यशस्करी । सङ्कर्षणः क्षपा बालो हृदयं कपिलाप्रभा ॥ आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् । चण्डः सर्व्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥ त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः । तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी । मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥” इति नानातन्त्रशास्त्रम् ॥ (धात्वनुबन्धविशेषः । स तु दिवादिगणसूचकः । तथा च कविकल्पद्रुमे । “दिवाद्यो य्लादादिकः ॥” छन्दःशास्त्रान्तर्गतगणविशेषः । तथा च छन्दो- मञ्जर्य्याम् । “भादिगुरुः पुनरादिलघुर्यः ॥” अस्य साङ्केतिकचिह्नं यथा, ।ऽऽ; काव्यादौ अस्य प्रथमप्रयोगे लक्ष्मीलाभः फलम् । यथा, वृत्तरत्नाकरटीकायाम् । “यो लक्ष्मीं रस्तु दाहं व्यसनमथ लवौ शः सुखं षस्तु खेदम् ॥”)
शब्दकल्पद्रुमः
यः || पुं, (याति वातीति । या गतौ + डः ।)
वायुः । यशः । योगः । यानम् । याता । इति शब्द- रत्नावली ॥ सर्व्वनाम । यच्छब्दार्थ इति यावत् । इति विश्वः ॥