वाचस्पत्यम्
यजति || पु० यज—अतिच् । यागमदे । “यजतिषु ये यजा- महे नानुयाजेषु” श्रुतिः । तल्लक्षणमुक्तं कात्या० श्रौ० १ । २ । ६ “तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोऽनु- वाक्यावन्तो यजतयः” सू० । “उच्यन्त इति शेषः । तिष्ठता होमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तस ये ते यजतयः उच्यन्ते” कर्कः ।
शब्दकल्पद्रुमः
यजतिः || पुं, (यज् + बाहुलकात् अतिः ।)
यागः । यथा, —
“यजतिषु येयजामहं कुर्य्यान्नानुयाजेषु ।” इति मलमासतत्त्वधृता श्रुतिः ॥