वाचस्पत्यम्
यज्ञवाट || पु० ६ त० । यज्ञस्थाने हेमच० ।
शब्दकल्पद्रुमः
यज्ञवाटः || पुं, (यज्ञस्य वाटो गृहम् ।)
यज्ञस्थानम् । इति हेमचन्द्रः ॥ (यथा, श्रीमद्भागवते । १० । २३ । ३३ । “इत्युक्त्वा मुनिपत्न्यस्ता यज्ञवाटं पुनर्गताः । ते चानसूयवः स्वाभिः स्त्रीभिः सत्त्रमपारयन् ॥”)