शब्दकल्पद्रुमः
यज्ञसाधनः || पुं, (यज्ञं साधयतीति । सिध + णिच् + ल्युः ।)
विष्णुः । इति महाभारते तस्य सहस्रनामस्तोत्रम् । १३ । १४९ । ११८ ॥ (यज्ञसाधके, त्रि । यथा, ऋग्वेदे । १ । १४५ । ३ । “पुरुप्रैषस्ततुरिर्यज्ञसाधनः ।” “यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वात् यज्ञस्य ।” इति तद्भाष्ये सायणः ॥)