वाचस्पत्यम्
यज्ञसार || पु० यज्ञेषु यज्ञसाघनेषु सारः श्रेष्ठः । यज्ञोडुम्बरवृक्षे राजनि० ।
शब्दकल्पद्रुमः
यज्ञसारः || पुं, (यज्ञे सारः उत्कृष्टः ।) यज्ञोडुम्बर- वृक्षः । इति राजनिर्घण्टः ॥