संस्कृत-शब्दकोशः

यज्ञोडुम्बर यज्यु

यज्ञोपवीत

वाचस्पत्यम्

यज्ञोपवीत ||‍ न० यज्ञेन संस्कृतमुपवीतम् । यज्ञसूत्रे उप- नयनसंस्कारेण पवित्रीकृते त्रिवृति उर्द्धवृते बःमस्कन्धात् दक्षिणकुक्षितो लम्बमानतया धृते सूत्रभेदे । यज्ञसूत्र- शब्दे दृश्यम् ।


शब्दकल्पद्रुमः

यज्ञोपवीतं || क्ली (यज्ञधृतं उपवीतम् ।)
यज्ञ- सूत्रम् । पैता इति भाषा । तत्पर्य्यायः । पवि- त्रम् २ ब्रह्मसूत्रम् ३ द्विजायनी ४ । इति त्रिकाण्डशेषः ॥ तस्य निरूपणं यथा । उप- वीतमाह गोभिलः । यज्ञोपवीतं कुरुते सूत्रं वस्तं वा अपि वा कुशरज्जुमेव । यज्ञोपवीतं विशिष्टविन्यासधारणकर्म्मतया कुरुते । किं तत् सूत्रम् । सूत्रं विशेषयति छन्दोगपरिशिष्टम् । “ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥” वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणा- वर्त्तवलितं कार्य्यं एवं त्रिवृतं त्रिसवं उपवीतं स्यात् । एको ग्रन्थिरिति नानात्वनिषेधार्थम् । तथा बौधायनः । “कौषं सौत्रं त्रिस्त्रिवृतं यज्ञोपवीतमानाभेः ॥” कौषं कृमिकोषोद्भवं पट्टसूत्रादिमयमित्यर्थः । सौत्रं कार्पासोद्भवम् । तथा मनुः । “कार्पासमुपवीतं स्यात् विप्रस्योर्द्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥” त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं त्रिसवत्वेन विशेष्यम् । यत्तु पैठीनसिवचनम् । कार्पासमुपवीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य । क्षौमं राजन्यस्य । आविकं वैश्यस्य । तन्नव- तन्त्वसम्भवे षट्तन्तुविधायकम् । नवतन्तुत्वं व्यक्तमाह देवलः । “यज्ञोपवीतं कुर्व्वीत सूत्राणि नव तन्तवः । एकेन ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोऽथवा ॥” एकेन ग्रन्थिना युक्त इति शेषः । द्विगुण- स्त्रिगुणोऽथवेति । तन्तुबलेन द्बिसवस्त्रिसवो वा कर्त्तव्यः । द्विसवत्वं त्रिसवत्वासम्भवे । गोभिले वाशब्दो विकल्पार्थः । अपिशब्दो वस्त्रकुश- रज्वोः सूत्रानुकल्पत्वप्रदर्शनार्थः । एवकार- स्त्रिसवत्वव्यवच्छेदार्थः । द्बितीयो वाशब्दः अनुक्तमौञ्जबालादिसमुच्चयार्थः । तथा निगम- परिशिष्टम् । वाससा यज्ञोपवीतानि कुरुते तद- भावे त्रिवृता सूत्रेण । कुशमुञ्जबालप्रतिसर- रज्जुभिर्व्वा । बालोऽत्र गोबालः । यथा देवलः । “कार्पासक्षौमगोबालशररज्जुतृणोद्भवम् । सदा सम्भवतो धार्य्यमुपवीतं द्बिजातिभिः ॥” तदभाव इति करणाद्वस्त्राभावे कुशरज्जुभिरिति बोद्धव्यम् । इति श्राद्धविवेकः ॥ * ॥
अथोप- नयनदिनम् । तत्र गर्भाष्टमेऽब्दे ब्राह्मणस्योप- नयनं शस्तम् । क्षत्त्रियस्य गर्भैकादशे । गर्भ- द्वादशे वैश्यस्य शस्तम् । अत्रासामर्थ्ये ब्राह्म- णस्य षोडशवर्षपर्य्यन्तमेव । क्षत्त्रियस्य द्वाविं- शतिवर्षपर्य्यन्तम् । वैश्यस्य चतुर्व्विंशतिवर्ष- पर्य्यन्तं तदनुष्ठानकालः । तत्र मासाः माघ- फाल्गुनचैत्रवैशाखज्यैष्ठाषाढा विहिताः । तत्र तिथयः द्बितीयैकादशीद्वादशीपञ्चमीदशमी- तृतीया विहिताः । तत्र वाराः बृहस्पति- शुक्ररवीणां प्रशस्ताः । सामगानां मङ्गल- वारोऽपि । तत्र नक्षत्राणि । स्वाती ज्येष्ठा धनिष्ठा अश्विनी अनुराधा हस्ता रेवती पुष्या चित्रा श्रवणा मृगशिरः शतभिषा पूर्ब्बफल्गुनी उत्तरफल्गुनी पूर्ब्बभाद्रपदा उत्तरभाद्रपदा रोहिणी पूर्ब्बाषाढा । तत्र लग्नानि वृषसिंह- तुलाधनुर्मीनसंज्ञकानि । तत्र पक्षः शुक्लः । तच्चन्द्रादिशोभने अनध्यायादीन् परित्यज्य कर्त्तव्यम् । इति ज्योतिषतत्त्वमतम् ॥ * ॥
अथोपनयनम् । तत्र गोभिलः । गर्भाष्टमेषु ब्राह्मणमुपनयेत् गर्भैकादशेषु क्षत्त्रियं गर्भ- द्वादशेषु वैश्यम् । आषोडशात् ब्राह्मणस्यान- तीतः कालो भवति आद्वाविंशात् क्षत्त्रियस्य आचतुर्व्विंशात् वैश्यस्य । अत ऊर्द्ध्वं पतित- सावित्रीका भवन्ति । नैतानुपनयेयुर्नाध्याप- येयु र्न एभिर्व्विवाहयेयुः ॥ आषोडशादित्यभि- विधावाङ् । तथा च विष्णुधर्म्मोत्तरम् । “षोडशाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः । विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥ सावित्री नातिवर्त्तेत अत ऊर्द्ध्वं निवर्त्तते ॥” अत्र षोडशवर्षाणामुपनयनाङ्गता प्रतीयते । “पतिता यस्य सावित्री दश वर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥ प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः ॥” इति यमवचनेन तदनङ्गता प्रतीयते अनयोर्गर्म- जन्मगणनाभ्यामविरुद्धता । तथा च माण्डव्यः । “व्रतबन्धविवाहे च वत्सरपरिगणनमाहुराचार्य्याः । आधानपूर्ब्बकमेके प्रसूतिपूर्ब्बं सदान्ये तु ॥” यत्तु द्बिजानामित्युपक्रम्य पैठीनसिवचनम् । द्वादशषोडशविंशतिश्चेदतीता अवरुद्धकाला भवन्ति । तद्द्वादशवर्षाद्युपरि ब्राह्मणादीनां महा- व्याहृतिहोमप्रायश्चित्तार्थं षोडशवर्षोपरि गुरु- प्रायश्चित्तमिति । तथा च शङ्खलिखितौ । व्रात्य- श्चान्द्रायणं चरेत् गोप्रदानञ्च कुर्य्यात् । चान्द्रा- यणाशक्तौ धेन्वष्टकं तन्मूल्यं वा सार्द्धद्बाविंशति- कार्षापणाः गोमूल्यं कार्षापण एकः मिलित्वा सार्द्धत्रयोविंशतिकार्षापणाः देयाः । पितृमातृ- रहितस्य निःस्वस्य देशोपप्लवादिना पतित- सावित्रीकस्य वा विषये तु मनुविष्णू । “येषां द्बिजानां सावित्री नानुतिष्ठेद् यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपना- ययेत् ॥ कृच्छ्रं प्राजापत्यम् । तदशक्तौ धेनुत्रयं तन्मूल्यं वा नव कार्षापणाः । अकृतप्रायश्चित्तं प्रत्याह नैतानित्यादि । तत्र बहुवचनं तत्कर्त्तृसंसर्गिणां प्रायश्चित्तप्रदर्शनार्थम् । तथा च स्मृत्यन्तरम् । “व्रात्याचार्य्यस्य भुक्त्वान्नं कृच्छ्रपादेन शुध्यति । यश्चोपनयते व्रात्यान् त्रिभिः कृच्छ्रैः स शुध्यति ॥” भुजबलभीमकृत्यचिन्तामण्योः । “स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्रा- हरि- ष्विन्दौ तोयपतौ भगेऽदितिसुते भाद्रद्बये सागरे । केन्द्रस्थे भृगुजेऽङ्गिरःशशिसुते चन्द्रे च तारे शुभे कर्त्तव्यं व्रतकर्म्म मङ्गलतिथौ वाराः सितार्के- ज्यकाः ॥” अदितिसुत उत्तरफल्गुनी । सागरः पूर्ब्बा- षाढा । दीपिकायाम् । “जीवार्केन्दूडुशुद्धौ हरिशयनबहिर्भास्करे चोत्तरस्थे स्वाध्याये वेदवर्णाधिप इह शुभदे क्षौरिभे नादितौ च । शुक्रार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोज्झ्य षष्ठाष्टमेन्दूं नो जीवास्तातिचारेऽर्कसितगुरुदिने काल- शुद्धौ व्रतं स्यात् ॥” रविमदनतिथिं सप्तमीं त्रयोदशीम् । षष्ठाष्ट- मेन्दुं लग्नापेक्षया । कृत्यचिन्तामणौ । “माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः । चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥ ज्यैष्ठे गहननीतिज्ञ आषाढे क्रतुभाजनः । शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि च व्रतम् ॥” राजमार्त्तण्डः । “पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति ॥” आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूडोपनयनगोदानविवाहाः । विवाहः सार्व्वकालिक इत्येके । आपूर्य्यमाणे पक्षे शुक्ले पक्षे । वृद्धगर्गः । “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् । पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् ॥” श्रीपतिव्यवहारसमुच्चये । “कार्त्तिकस्याश्विनस्यापि फाल्गुनाषाढयो- रपि । कृष्णपक्षे द्बितीयायामनध्यायं विदुर्ब्बुधाः ॥” भुजबलः । “चैत्रकृष्णद्बितीयायां तिसृष्वेवाष्टकासु च । मार्गे च फाल्गुने चैव आषाढे कार्त्तिके तथा ॥ पक्षयोर्माघमासस्य द्बितीयां परिवर्ज्जयेत् । नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभक्रियाम् ॥” उपनयने उत्तरायणशुक्लपक्षयोर्विधानात् कार्त्ति- कादौ कृष्णपक्षे च द्वितीयानिषेधः पुनः- संस्कारमर्हति इत्युक्तप्रायश्चित्तरूपोपनयनपरः । वैश्योपनयनपरश्च । तथा च गर्गः । “विप्रस्य क्षत्त्रियस्यापि मौर्ञ्जा स्यादुत्तरायणे । दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे । अनध्यायेऽपि कुर्व्वीत यस्य नैमित्तिकं भवेत् ॥” अपिना दक्षिणायनकृष्णपक्षयोः समुच्चयः । नैमित्तिकं प्रायश्चित्तरूपम् । चैत्रशुक्लतृतीया आषाढशुक्लदशमी मन्वन्तरादित्वेन निषिद्धा । वैशाखशुक्लतृतीया युगादित्वेन निषिद्धा । षष्ठ्यामशुचिरुग्भार्य्यो रिक्तासु बहुदोषभाक् । सामगानां कुजवारेऽप्युपनयनम् । शाखाधि- पत्वात् । यथा च । “शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपनयनं कथितं द्बिजानाम् । मीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयः स्मृतिकर्म्महीनः ॥” अस्य शाखाधिपस्य । कृत्यचिन्तामणौ । “जन्मोदये जन्मसु तारकासु मासेऽथवा जन्मनि जन्मभे वा । व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम् ॥ अस्तं गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते । व्रतोपनीतो दिवसैः प्रणाशं प्रयाति देवैरपि रक्षितो यः ॥” उदये लग्ने । व्रतेन उपनयनेन । इति संस्कार- तत्त्वम् ॥



Correction: