शब्दकल्पद्रुमः
यज्युः || त्रि (यजतीति । यज् + “यजिमनिशुन्धि- दसिलनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।)
यजुर्व्वेदवेत्ता ब्राह्मणः । इत्युणादि- कोषः ॥ यजमानः । इति संक्षिप्तसारोणादि- वृत्तिः ॥ (यथा, ऋग्वेदे । १ । ३१ । १३ । “त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय ।” “हे अग्ने त्वं यज्यवे यज्योर्यजमानस्य पायुः पालकः ।” इति तद्भाष्ये सायणः ॥)