वाचस्पत्यम्
यत || ताडने उपस्करे च चु० स० सेट् । यातयति । अयी- यतत् त । निर् + परीवर्त्ते प्रतीरूपशोधने च ।
वाचस्पत्यम्
यत || यत्ने भ्वा० आत्म० अक० सेट् । यतते अयतिष्ट ईदित् निष्ठायामनिट् यत्तः ।
शब्दकल्पद्रुमः
यतः || व्य, (यद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । “तद्धितश्चासर्व्वविभक्तिः ।” १ । १ । ३८ । इति तसिल्प्रत्ययान्तस्याव्ययत्वम् ।)
हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, मनुः । २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । अददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥” यद् + “इतराभ्योऽपि दृश्यन्ते ।” ५ । ३ । १४ । इति तसिल्प्रत्ययेन । येन । यथा, भागवते । २ । ५ । २ । “यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ! ॥” येभ्यः । यथा, भागवते । १ । १५ । २१ । “तद्वै धनुस्त इषवः सरथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति ॥” यत्र । यथा, अभिज्ञानशकुन्तले । “यतो यतः षट्चरणोऽभिवर्त्तते ततस्ततः प्रेरितवामलोचना ॥”)