वाचस्पत्यम्
यतिचान्द्रायण || न० यतिनेव कर्त्तव्यं चान्द्रायणं व्रतभेदः । “अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने गते । नियतात्मा हविव्याशी यतिचान्द्रायणं चरन्” मनूक्ते व्रतभेदे ।
शब्दकल्पद्रुमः
यतिचान्द्रायणं || क्ली (यतिभिरनुष्ठेयं चान्द्रायणम् ।)
व्रतविशेषः । यथा, —
“अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥” इति मानवे ११ अध्यायः ॥ यतिचान्द्रायणे पादोनधेनुचतुष्टयं तदशक्तौ सपादैकादशकार्षापणाः । इति प्रायश्चित्त- विवेकः ॥