वाचस्पत्यम्
यत्न || पु० यत—भावे नङ् । १ आयासे २ उद्योगे वैशेषिकोक्ते प्रवृत्ति- निवृत्तिजीवनयोनिरूपत्रैविध्यापन्ने ३ गुणभेदे च । स च आत्मगुणः इति नैयाविकादयः चित्तगुण इति सांख्यवै- दान्तिकाः ।
शब्दकल्पद्रुमः
यत्नः || पुं, (यत + “यजयाचयतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।)
रूपादि- चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । स च त्रिविधः । प्रवृत्तिः १ निवृत्तिः २ जीवन- योनिः ३ । यथा, —
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनयोनयः । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम् ॥” तेषां कारणं यथा, —
“चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेषाद्द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ उद्योगः । यथा, —
“उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥