संस्कृत-शब्दकोशः

यत्र यथाकाम

यथा

वाचस्पत्यम्

यथा ||‍ अव्य० यद् + प्रकारे थाल् । १ येन प्रकारेणेत्यर्थे २ सादृश्ये ३ योग्यतायाम् ४ आनुरूप्ये ५ पदार्थानतिवृत्तौ च सि० कौ० ।


शब्दकल्पद्रुमः

यथा || व्य, सादृश्यम् । साम्यम् । तत्पर्य्यायः । वत् २ वा ३ तथा ४ एव ५ एवम् ६ । इत्यमरः । ३ । ४ । ९ ॥ (यथा, उत्तररामचरिते । २ । ४ । “वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति च । भवति च तयोर्भूयान् भेदः फलं प्रति तद्यथा प्रभवति शुचिर्विम्बोद्ग्राहे मणिर्न मृदां चयः ॥”)



Correction: