वाचस्पत्यम्
यथाकामिन् || त्रि० यथाकामं स्वाच्छन्द्यमस्त्यस्य इनि । स्वेच्छाचारिणि जने स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
यथाकामी || [न्] त्रि, (यथा कामयते इति । कामि + णिनिः । यद्वा, काममनतिक्रम्य प्रवृत्ति- रस्यास्तीति । यथाकाम + अत इनिठनाविति इनिः ।)
स्वेच्छाचारी ॥ तत्पर्य्यायः । स्वरुचिः २ स्वच्छन्दः ३ स्वैरी ४ अपावृतः ५ स्वतन्त्रः ६ निरवग्रहः ७ । इति हेमचन्द्रः । ३ । १९ ॥ निर्यन्त्रणः ८ । इति जटाधरः ॥ (यथा, याज्ञ्यवल्क्यसंहितायाम् । १ । ८१ । “यथाकामी भवेद्बापि स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥”)