शब्दकल्पद्रुमः
यथामुखीनः || त्रि (यथामुख + “यथामुखसंमु- खस्य दर्शनः खः ।” ५ । २ । ६ । इति खः ।)
मुखप्रतिविम्बाश्रयः । मुखस्य सदृशं यथामुखं प्रतिविम्बं निपातनात् सादृश्येऽव्ययीभावः । यथामुखं दर्शनः यथामुखीनः । इति सिद्धान्त- कौमुदी ॥ अपि च । “ततश्चित्रीयमाणोऽसौ हेमरत्नमयो मृगः । यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन् ॥” इति भट्टिः ॥ मुखस्य सदृशं यथामुखं दर्पणादिस्थप्रतिविम्ब- मुच्यते । सादृश्यार्थेऽव्ययीभावः । इति भरतः ॥ निर्म्मलत्वात् सीताया अग्रतो यथामुखीनः प्रतिविम्बाश्रय इव भूत्वा पुप्लुवे भ्रमति स्म इव- शब्दलोपो द्रष्टव्यः । इति जयमङ्गलः ॥