वाचस्पत्यम्
यथास्व || अव्य० स्वस्यानतिक्रमः अव्ययी० । १ याथार्थ्ये । अर्श आद्यच् । २ यथार्थे त्रि० अमरः ।
शब्दकल्पद्रुमः
यथास्वं || व्य, क्ली, (स्वमनतिक्रम्येत्यव्ययीभावः ।)
यथावाञ्छितम् । इत्यमरः ॥ (यथा, सुश्रुते चिकित्सास्थाने ८ अध्याये । “बन्धं ततोऽनुकुर्व्वीत परिषेकन्तु सर्पिषा । तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ॥”)