संस्कृत-शब्दकोशः

यथास्व यथेष्ट

यथेप्सित

वाचस्पत्यम्

यथेप्सित ||‍ अव्य० ईप्सितस्यानतिक्रमः अव्ययी० । १ खाच्छन्द्ये अमरः । अर्श आद्यच् । २ यथाभीष्टे त्रि० यथेष्टमप्यत्र ।


शब्दकल्पद्रुमः

यथेप्सितं || व्य, क्ली, (ईप्सितमनतिक्रम्येति ।)
यथा- वाञ्छितम् । (यथा, भट्टिकाव्ये । २ । २८ । “तान् प्रत्यवादीदथ राघवोऽपि यथेप्सितं प्रस्तुतकर्म्म धर्म्म्यम् । तपो मरुद्भिर्भवतां शराग्निः सन्धुक्ष्यतां नोऽरिसमिन्धनेषु ॥”)
तत्पर्य्यायः । कामम् २ प्रकामम् ३ पर्य्याप्तम् ४ निकामम् ५ इष्टम् ६ । इत्यमरः । २ । ९ । ५७ ॥ षट् इष्टानतिक्रमे स्वच्छन्दप्रवृत्तौ कामादीनि प्रायः क्रियाविशेषणानि क्रियाविशेषणत्वात् क्लीवत्वमेषाम् । ईप्सितस्यानतिक्रमो यथेप्सित- मित्यव्ययीभावः । इति भरतः ॥



Correction: