वाचस्पत्यम्
यदि || अव्य० यद् + णिच्—इन् णिलोपः । १ पक्षान्तरे अमरः । २ सम्भावनायाम् ३ गर्हायां ४ विकल्पे च मेदि० ।
शब्दकल्पद्रुमः
यदि || व्य, पक्षान्तरम् । सम्भावना । तत्पर्य्यायः । चेत् २ यद्युवा ३ । यथा, —
“यदीच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् । प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ ॥” इति मलमासतत्त्वम् ॥ “अपि चेत् सुदुराचारो भजते मामन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥” इति श्रीभगवद्गीता ॥ “यद्युवाल्पतरसम्भारः स्यादपि पशुनैव कुर्य्यात् इति । यद्युवेति निपातसमुदायो यद्यर्थे ।” इति तिथ्यादितत्त्वम् ॥