संस्कृत-शब्दकोशः

यदृच्छाशब्द यद्युवा

यद्

वाचस्पत्यम्

यद् ||‍ त्रि० यज्—अदि डिच्च । (ये) १ इत्येवं बुद्धिविशेषविषये । अस्य उक्तार्थे सर्वनामता । अयञ्च शब्दः तच्छब्दार्थनित्यापेक्षी उत्तरवाक्यस्थस्तु न तदपेक्षी इति काव्यप्र० । यत्तच्छब्दयो- रन्वये च न समानविभक्तेस्तन्त्रतेत्याकरे स्थितम् । २ यस्मादित्यर्थे अव्य० । ३ गर्हायाम् ४ अवधृतौ च मेदि० ।


शब्दकल्पद्रुमः

यत् || [द्] त्रि, (यजति सर्व्वैः पदार्थैः सह सङ्गतो भवतीति । यज् + “त्यजितनियजिभ्यो डित् ।” उणा० १ । १३१ । इति अदिः डित् ।)
बुद्धिस्थ- त्वोपलक्षितधर्म्मावच्छिन्नम् । इति न्यायमतं सिद्धान्तकौमुद्युणादिवृत्तिश्च ॥ ये इति भाषा ॥ (एकविंशतिविभक्तिषु पुंलिङ्गे तस्य रूपाणि यथा, यः १ यौ २ ये ३ । प्रथमा । यम् ४ यौ ५ यान् ६ । द्बितीया । येन ७ याभ्याम् ८ यैः ९ । तृतीया । यस्मै १० याभ्याम् ११ येभ्यः १२ । चतुर्थी । यस्मात् १३ याभ्याम् १४ येभ्यः १५ । पञ्चमी । यस्य १६ ययोः १७ येषाम् १८ । षष्ठी । यस्मिन् १९ ययोः २० येषु २१ । सप्तमी ॥ * ॥
स्त्रीलिङ्गे तस्य रूपाणि यथा, या १ ये २ याः ३ । प्रथमा । याम् ४ ये ५ याः ६ । द्वितीया । यया ७ याभ्याम् ८ याभिः ९ । तृतीया । यस्यै १० याभ्याम् ११ याभ्यः १२ । चतुर्थी । यस्याः १३ याभ्याम् १४ याभ्यः १५ । पञ्चमी । यस्याः १६ ययोः १७ यासाम् १८ । षष्ठी । यस्याम् १९ ययोः २० यासु २१ । सप्तमी ॥ * ॥
क्लीवलिङ्गे तस्य रूपाणि । यत् १ ये २ यानि ३ । प्रथमा । यत् ४ ये ५ यानि ६ । द्बितीया । शेषः पुंवत् ॥)



Correction: