वाचस्पत्यम्
यन्तृ || पु० यम—तृच् । १ सारथौ २ हस्तिपके च अमरः । ३ सयमयुक्ते त्रि० हेमच०
शब्दकल्पद्रुमः
यन्ता || [ऋ] पुं, (यम् + तृच् ।)
सारथिः । (यथा, रघौ । ७ । ४४ । “प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्त्तिताश्वान् । यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥)
हस्तिपकः । इत्यमरः । ३ । ३ । ५९ ॥ (यथा, माघे । ५ । ४२ । “सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते ॥”)
विरतिकारके, त्रि ॥