संस्कृत-शब्दकोशः

यन्तृ यन्त्रक

यन्त्र

वाचस्पत्यम्

यन्त्र ||‍ न० यत्रि—अच् । १ संयमने तन्त्रोक्ते देवाद्यधिष्ठाने २ चक्रभेदे ३ औषधपाकार्थपात्रभेदे, ज्योतिश्चक्राद्यवेक्षण- साधने ४ पदार्थभेदे, ५ सूत्रथारादेर्दारुवेधकादौ (तुरविन्) (भमर) पदार्थे । ६ अग्न्यादेः क्षपणसाधने पदार्थे अग्नि- यन्त्रम् (कामान धनुक) । औषधपाकपात्रं च नानाविर्ध भावप्र० दर्शितं यथा वालुकायन्त्रम् “भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके । कूपिकाकण्टपर्य्यन्तं वालुकाभिश्च पूरिते । भेषजं कूपि- कासंस्थं वह्निना यत्र पच्यते । वालुकायन्त्रमेतद्वि यन्त्र- तन्त्रवुधैः स्मृतम्” । दोलायन्त्रम् “निघद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे । रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि । सन्धान- पूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् । अधस्ताज्ज्वा- लयेदग्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि” । सन्धानं काञ्जिकादि । विद्याधरयन्त्रम् “साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च । पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं परम् । अधःस्थाल्यां रसं क्षिप्त्वा संनिदध्यान्मुखोपरि । स्थाली- मूर्द्धमुखीं सम्यक् निरुध्य मृदुमृत्सया । ऊर्द्धस्थाल्यां जलं क्षित्वा चुल्ल्यामारोप्य यत्नतः । अधस्तात् ज्वालये- दग्निं यावत् प्रहरपञ्चकम् । स्वाङ्गशीतं ततो यन्त्रात् गृह्णीयाद्रसमुत्तमम् । विद्याधराभिधं यन्त्रमेतत्तज्ज्ञै- रुदाहृतम्” । भूधरयन्त्रम् “वालुकासु समस्ताङ्गं गर्त्ते मूषाः रसान्विताः । दीप्तोपलैः संवृणुयाद्यन्त्रं भूधरनामकम्” । डमरुयन्त्रम “यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्योर्मुद्रिते मुखे” कालज्ञानार्थे सू० सि० उक्ते ६ पदार्थभेदे यथोक्तं “कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् । एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि । शङ्कुयष्टिधनुश्चक्रै- श्छायायन्त्रैरनेकधा । गुरूपदेशाद्विज्ञेयं कालज्ञानमत- न्द्रितैः” मू० । “शङ्कुयष्टिधनुश्चक्रैः प्रसिद्धैश्छायायन्त्रैश्छा- यासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरूपदेशात् स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमैः पुरुषैः काल- ज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम् । एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्थैः स्पष्टीकृतम् शङ्कुयन्त्रत् “समतलमस्तकपरिधिर्भ्रमसिद्ध्यै दन्तिदन्तजः शङ्कुः । तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्” । यष्टियन्त्रम् “त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र । दत्त्वाऽग्रां प्राक्पश्चात् द्विज्यावृत्तं च तन्मध्ये । तत्- परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे । त्रिज्याङ्गुला निधेया यष्ट्याग्राग्रान्तरं यावत् । यावत्या मौर्व्या यद्द्वितीयवृत्ते धनुर्भवेत् तत्र । दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम्” । चक्रयन्त्रम् “चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिका- धारम् । धात्री आधारात् कल्प्या भार्धेऽत्र खार्धं च । तन्मध्ये सूक्ष्माक्षं क्षित्वार्काभिमुखनेमिकं धार्यम् । भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः । तत्खार्धान्तश्च नता उन्नतलवसङ्गुणं द्युदलम् । द्युदलौन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः” । धनुर्यन्त्रम् “दलीकृतं चक्रमुशन्ति चापम्” इति । अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादि- विचारश्चोपेक्षित इति मन्तव्यम् । अथ घटीयन्त्रादिभि- श्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साथयेदिति कालसाधनमुपसंहरति” रङ्ग० । “तोययन्त्रकपालाद्यै- र्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसा- धयेत्” मू० । “तोययन्त्रं च तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यसाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालु- कायन्त्रप्रभृतिभिः सापेक्षवटीयन्त्रैर्मयूरनरवानरै । मय्- राख्यं खयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहिता रेखवो घूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसङ्ख्याका मृद्घटिका मयूरो- दरस्था मुखाद् घटिकान्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुका यन्त्रं प्रसिद्धम् । तेन सहितैर्मयूरादियन्त्रैर्मथूराद्युक्त- यन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः । चकारस्तोययन्त्र- कपालाद्यैरित्यनेन समुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्म- त्वेनेत्यर्थः । जानीयादित्यर्थः । ननु मयूरादिस्वयं- वहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारा बहवो दुर्नमाश्च सन्तीत्याह रङ्ग० । “शारदाराम्बुसूत्राणि शुल्वतैलक्षनि च । बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः” भू० । “तेषु मयूरादिय- न्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः । प्रक- र्षस्तु यावदभिमतसिद्धेः । ते के इत्यत आह । पारदारा- म्बुसूत्राणीति । पारदयुक्ता आराः । तथाच सिद्धान्त- शिरोमणौ “लघुकाष्ठजसमचक्रे समसुषिराराः समा- न्तरा नेम्याम् । किञ्चिद्वक्रा योज्याः सुषिरस्यार्धे पृथक् तासाम् । रसपूर्णे तच्चक्रं ह्माधाराक्षस्थितं स्वयं भ्रमति” । अम्बु जलस्य प्रथोगः । सूत्राणि सूत्रचासाधनप्रयोगः । शुल्बं शिल्पनैपुण्यम् । तैलजलानि तैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक् प्रयोगोऽपि । तथाच सिद्धान्तशिरोमणौ “उत्कीर्यनेमिमथ वा परितो यदनेन संलग्नम् । तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत् तावत् । यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति । पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जला- कृष्टम् । ताम्रादिमलस्याङ्कुशरूपनलस्याम्बुपूर्णस्य । एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः । युगप- ग्मुक्तं चेत् कं नलेन कुण्डाद्वहिः पतति । नेम्यां बद्ध्वा षटिकाश्चक्रं जलयन्त्रवत् तथा धार्यम् । नलकप्रच्युत- सलिलं पतितं यथा तद्वटीमध्ये भ्रमति । ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् । चक्रच्युतं स्वयमुदकं कुण्डे याति प्रणालिलया” । इति । बीजानि केवलं तुङ्गबीज प्रयोगः । पांसवो धूलिप्रयोगास्तैर्युक्ताः प्रयोगाः । अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः । दुर्लभाः असा- धारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः । इयं स्वयंवह- विद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यग- भ्यस्तेति । कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः” रङ्ग० । अथ कपालाख्यं जलयन्त्रम् “ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि । षष्टिर्मज्ज- त्यहोरात्रे स्फुटं यन्त्रं कपालकम्” मू० “यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत् । अमलाम्भसि निर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टि- वारमेव न न्यूनाधिकं मज्जति । अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्नं भवति । तत् कपालकं घटखण्डानां कपालपडवाच्यत्वात् घटाधस्तनार्धाकारं यन्त्रं षटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु “शुल्बस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् । तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात् । सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला स्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकथाम्बुभिस्तत्” मू० । इति व्यक्तम् । भगवता तु सूक्ष्ममुक्तम् । अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्य देत्याह रङ्ग० । “नरयन्त्रं तथा साधु दिवा च विमले रकौ । छावासंसाधनैः प्रोक्तं काससावनसुत्तमम्” मू० । देवताभेदे पूजाधारयन्त्राणि धारणयन्त्राणि च तन्त्रसा- रोक्तानि दृश्यानि । तल्लेखनद्रव्याणि तत्रोक्तानि यथा “काश्मीररोचनालाक्षामृगेभमदचन्दनैः । बिलिखे- द्धेमलेखन्या यन्त्राण्येतानि देशिकः । सौवर्णे राजते पत्रे भूर्जे वा सम्यगालिखेत् । अथ वा ताम्रपत्रे वा गुटिकीकृत्य धारथेत् । यावज्जीवं सुवर्णे स्यात् रौप्ये विंशतिवार्षिकम् । भूर्जे द्वादशवर्षाणि तदर्द्धं ताम्र- पट्टके” । द्रव्यभेदस्पर्शे तत्र तस्याधार्य्यतोक्ता यथा “भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्माल्यसङ्गतम् । वि- दीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत्” ।


शब्दकल्पद्रुमः

यन्त्रं || क्ली (यच्छत्यत्रेति । यम + “गुधृवीपचिवचि- यमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ । इति त्रः ।)
देवाद्यधिष्ठानम् ॥ (यथा, देवी- भागवते । ३ । २६ । २१ । “अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥”)
पात्रभेदः । नियन्त्रणम् । इति हेमचन्द्रः ॥ अग्नियन्त्रम् । इति महाभारतटीकायां नील- कण्ठः ॥ कामान् वन्दूक इत्यादि भाषा ॥ * ॥
वाद्यम् । यथा, —
“यन्त्रस्य गुणदोषौ न विचार्य्यौ मधुसूदन ! । अहं यन्त्रं भवान् यन्त्री न मे दोषा न मे गुणाः ॥” इति महाभारतम् ॥ दारुयन्त्रादि । कल इति भाषा । यथा, —
“ईश्वरः सर्व्वभूतानां हृद्देशेऽर्ज्जुन ! तिष्ठति । भ्रामयन् सर्व्वभूतानि यन्त्रारूढानि मायया ॥” इति श्रीभगवद्गीतायाम् । १८ । ६१ ॥ अस्यार्थः । “सर्व्वभूतानां हृन्मध्ये इश्वरोऽन्तर्यामी तिष्ठति । किं कुर्व्वन् सर्व्वाणि भूतानि मायया निजशक्त्या भ्रामयंस्तत्तत्कर्म्मसु प्रवर्त्तयन् यथा दारुयन्त्रमारूढानि कृत्रिमाणि भूतानि सूत्र- धारो लोके भ्रामयति तद्बदिति । यद्बा यन्त्राणि शरीराणि आरूढानि भूतानि देहाभिभानिनो जीवान् भ्रामयन्नित्यर्थः ।” इति श्रीधरस्वामी ॥ अथ पूजाधारयन्त्रम् । तत्र नारदीये । “आपोऽग्निर्हृदयं चक्रं विष्णोः क्षेत्रसमुद्भवम् । यन्त्रञ्च प्रतिमास्थानमर्च्चने सर्व्वदा हरेः ॥” गौतमीये । “शालग्रामे मणौ यन्त्रे प्रतिमामण्डलेषु च । नित्यं पूजा हरेः कार्य्या न तु केवलभूतले ॥” योगिनीतन्त्रे । “लिङ्गस्थां पूजयेद्देवीं पुस्तकंस्थां तथैव च । मण्डलस्थां महामायां यन्त्रस्थां प्रतिमासु च । जलस्थां वा शिलास्थां वा पूजयेत् परमेश्वरीम् ॥” एतत् सर्व्वं यन्त्राभावे । कौलावलीये । “यत्रापराजितापुष्पं जवापुष्पञ्च विद्यते । करवीरे शुक्लरक्ते द्रोणं वा यत्र तिष्ठति । तत्र देवी वसेन्नित्यं तद्यन्त्रे चण्डिकार्च्चनम् ॥” एतत् सर्व्वयन्त्राभावे । तथा च । “यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतैव हि । देहात्मनोर्यथा भेदो यन्त्रदेवतयोस्तथा ॥” तथा । “आदौ लिखेद्यन्त्रराजं देवतायाश्च विग्रहम् । कामक्रोधादिदोषोत्थसर्व्वदुःखनियन्त्रणात् ॥ यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः । विना यन्त्रेण पूजायां देवता न प्रसीदति ॥ दुःखनिर्यन्त्रणाद्यन्त्रमित्याहुस्तन्त्रवेदिनः ॥” इति यन्त्रपूजाप्राधान्यम् ॥ * ॥
अथ धारणयन्त्राणि । तत्रादौ भुवनेश्वरी- यन्त्रम् । शारदायाम् । “आलिख्याष्टदिगर्गलान्युदरगं पाशादिकं त्र्यक्षरं कोष्ठेष्वङ्गमनून् परेषु विलिखेदष्टार्णमन्त्रद्बयम् । अच्पूर्ब्बापरषट्कयुग् लयवरान् व्योमास- नानर्गले- ष्वालिख्येन्द्रजलाधिपादिगुणशः पंक्तिद्वयात्तत्- परम् ॥ कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतां मायां केशरगां दलेषु विलिखेन्मलं त्रिपंक्ति- क्रमात् । त्रिः पाशाङ्कुशवेष्टितञ्च लिपिभिर्व्वीतं क्रमाद्- व्युत्क्रमात् पद्मस्थेन घटेन पङ्कजमुखेनावेष्टितं तद्बहिः ॥” घटार्गलमिदं यन्त्रं मन्त्रिणां श्रीप्रदं महत् । पाशश्रीशक्तिकन्दर्पकामशक्तीन्दिराङ्कुशाः ॥ प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनि रञ्जिनि । स्वाहान्तोऽष्टाक्षरः सद्भिरपरः परिकीर्त्तितः ॥ ह्रीं गौरि रुद्रदयिते योगेश्वरि सवर्म्मफट् । द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः ॥” इति घटार्गलयन्त्रम् ॥ * ॥
“तारे हुँ विलिखेत् सरोजकुहरे साध्याभि- धानान्वितं मन्त्रार्णान् वसुसंख्यकान् वसुदलेष्वालिख्य तद्बाह्यतः । शक्त्या त्रिः परिवेष्टितं घटगतं पद्मस्थमब्जा- ननं यन्त्रं वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदं कीर्त्तिदम् ॥” इति त्वरितायन्त्रम् ॥ * ॥
“पद्मं भानुदलान्वितं प्रविलिखेत् तत्कर्णिकायां पुन- स्तारं शक्तिगबीजसाध्यसहितं तत्केशरेषु क्रमात् । मर्दिन्यामनुसम्भवान् युगलशो वर्णान् पुनः पत्रगान् मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यं तदन्त्ये दले ॥” मन्त्रस्तु । “उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ मातृकार्णेन संवीतं भूपुरद्वयमध्यगम् । यन्त्रञ्च विन्ध्यवासिन्याः प्रोक्तं सर्व्वसमृद्धिदम् ॥ रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् । राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ॥ सुतार्थिनीनां सुतदं रोगिणां रोगशान्तिदम् । बहुना किमिहोक्तेन यन्त्रं यत् कामदो मणिः ॥” इति वनदुर्गायन्त्रम् ॥ * ॥
अथ लक्ष्मीयन्त्रम् । “वेदादिस्थितसाध्यनामयुगशः श्रीशक्ति- मारान्वितं किञ्जल्केषु दिनेशपत्रविलसन्मन्त्राक्षरं तद्बहिः । पद्मं व्यञ्जनकेशरं स्वरलसत्पत्राष्टयुग्मं धरा- विम्बाभ्यां वषडन्तया त्वरितया यन्त्रं लिखेद्- बेष्टितम् । भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः । महालक्ष्मीयन्त्रमिदं सर्व्वैश्वर्य्यफलप्रदम् ॥ सर्व्वदुःखप्रशमनं सर्व्वापद्बिनिवारकम् । बहुना किमिहोक्तेन परमस्मान्न विद्यते ॥” * ॥
अथ त्रिपुरभैरवीयन्त्रम् । “मध्याद्यं नवयोनिषु प्रविलिखेद्बीजानि वर्णांस्त्रिशो गायत्त्र्याः पुनरष्टपत्रविवरेष्वालिख्य लिप्या- वृतम् । भूविम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितं यन्त्रं त्रैपुरमीरितं त्रिभुवनप्रक्षोभणं श्रीप्रदम् ॥” गायत्त्री तु । “मन्मथं त्रिपुरादेवि विद्महे पदमुद्धरेत् । उक्त्वा कामेश्वरिपदं प्रवदेदथ धीमहि ॥ अन्ते च प्रवदेद्भूयस्तन्नः क्लिन्ने प्रचोदयात् । गायत्त्र्यषा समाख्याता त्रैपुरी सर्व्वसिद्धिदा ॥” यन्त्रान्तरम् । “वह्नेर्गेहयुगान्तरस्थमदने मायां लिखेद्वाग्भवं षट्कोणेष्वथ सन्धिषु प्रविलिखेत् हुंकार- मावेष्टितम् । स्त्रींबीजेन समीरितं त्रिभुवनप्रक्षोभणं त्रैपुरं यन्त्रं पञ्चमनोभवात्मकमिदं सौन्दर्य्यसम्पत्- करम् ॥” इति त्रिपुरायन्त्रम् ॥ * ॥
अथ श्रीविद्यायन्त्रम् । “विशेषं धारणं यन्त्रं प्रसङ्गात् कथयामि ते ॥ रेफहकारयोर्मध्ये देवीनामभिमुख्यकम् । साध्यनाम द्वितीयान्तं तस्योर्द्धे विलिखेन्मनुम् ॥ तत्रैव मातृकां सर्व्वां विलिखेच्चक्रबाह्यतः । पञ्चगव्यामृतेनैव मूलेन परिवेष्टयेत् ॥ तत्र प्राणं प्रतिष्ठाप्य विद्यामष्टोत्तरं शतम् । तत् स्पृष्ट्वा प्रजपेन्मन्त्रं देवीध्यानपरायणः ॥ हेम्नो मध्यगतं कृत्वा रजतस्याथवा पुनः । करे धृत्वा जगद्बश्यं हृदये स्त्रीषु वल्लभम् ॥ कण्ठे धनं लभेद्भाले स्तम्भनं जम्भनं भवेत् । शिखायां मोक्षमाप्नोति तस्माद्यत्नेन धार- येत् ॥” * ॥
अथ गणेशयन्त्रम् । “बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु लक्ष्मी- मायाकन्दर्पभूमीस्तदनुरसपुटेष्वालिखेद्बीज- षट्कम् । तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान् शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चान्त्य- मन्त्ये पलाशे ॥ आवीतं लिपिभिः क्रमोत्क्रमवशात् पाशा- ङ्कुशाभ्यामपि भूविम्बद्बितयेन विष्टितमिदं यन्त्रं गणाधीशितुः । लाक्षाकुङ्कुमरोचनामृगमदैर्भूर्जोदरे हेम्नि वा संलिख्याभिवहन् लभेत सकलैः संप्रार्थनीयां श्रियम् ॥ उक्तं महागणपतेर्व्विधानं सुरपूजितम् । सर्व्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम् ॥” * ॥
अथ श्रीरामयन्त्रम् । “तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धि- ष्वङ्गं मायां स्मरमपि लिखेत् कोणगण्डेषु पश्चात् । किञ्जल्केषु स्वरगणमतो पत्रमध्येषु माला- मन्त्रस्यार्णान् गुहमुखमितानष्टमे पञ्चवर्णान् ॥ दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे । दिग्विदिक्षु लिखेद्बीजे नरसिंहवराहयोः ॥ नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् । रक्षोघ्नविषदायान्ते मधुरादि समीरयेत् ॥ प्रसन्नवदनायेति पश्चादमिततेजसे । बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् । प्रणवादिनमोऽन्तोऽयं मालामन्त्रः प्रकीर्त्तितः ॥” अथ नृसिंहयन्त्रम् । “बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथो मन्त्रार्णान् श्रुतिशो विभज्य विलिखेल्लिप्या बहिर्व्वेष्टयेत् । बाह्ये कोणगबीजबद्धवसुधागेहद्वयेनावृतं यन्त्रं क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीप्रदम् ॥” * ॥
अय गोपालयन्त्रम् । “पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजत्षडर्णं कुर्य्यात् पद्मं दशार्णस्फुरितदशदलं कामबीजेन वीतम् । पद्मं किञ्जल्कसंस्थस्वरविकृतिदलप्रोल्लसत्- षोडशार्णं किञ्जल्कव्यञ्जनाढ्यं विकृतियुगदलेष्वर्पितानष्ट- वर्णान् ॥ पाशाङ्कुशाभ्यामावीतं क्षौणीपुरयुगास्रिषु । अष्टाक्षरेण लसितं यन्त्रं गोपालदैवतम् ॥ धर्म्मार्थकामफलदं सर्व्वरक्षाकरं स्मृतम् । पञ्चान्तको धरासंस्थो मनुर्बिन्दुविभूषितः ॥ पिण्डबीजमिदं प्रोक्तं सर्व्वसिद्धिकरं परम् । स्मरः कृष्णाय ठद्वन्द्वं षडर्णो मनुरीरितः ॥ गोपीजनान्ते प्रददेद्बल्लभायाग्निवल्लभा । अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥ प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् । तादृशं देवकीपुत्त्रं हुं फट्स्वाहासमन्वितम् । षोडशाक्षरमन्त्रोऽयं गोविन्दस्य जगत्पतेः ॥ पिण्डं रतिपतेर्ब्बीजं नमो भगवते ततः । नन्दपुत्त्राय बालादिवपुषे श्यामलाय च ॥ गोपीजनपदस्यान्ते वल्लभाय द्विठावधि । अनुष्टुप् मन्त्र आख्यातो गोपालस्य जगत्पतेः ॥ अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरो मनुः ॥” इति गोपालयन्त्रम् ॥ * ॥
अथ गोपालस्य यन्त्रान्तरम् । “प्राक् प्रत्यक् दक्षिणोदक् विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं कोणोद्यच्छूलयुक्तं बलययुगयुतं मध्यपूर्ब्बं तदन्तम् । श्लोकस्यार्णान् पुरस्ताद्बसुपदविवरेष्वष्टवर्णं लिखित्वा तद्बाह्य द्वादशार्णैस्तदनुपरिवृतं देवकीपुत्त्र- यन्त्रम् ॥ तं सुकी देव देवेतं तं वेदे वरतो वतम् । तं वतो रूढतो ख्यातं तं ख्यातो देवकीसुतम् ॥ लिखितं भूर्ज्जपत्रादौ यन्त्रमेतद्यथाविधि । विधृतं बाहुना नित्यं सर्व्वकामफलप्रदम् ॥ पलाशवृक्षफलके लिखितं साधु साधितम् । गोस्थाने निखनेदेतत् गवां बृद्धिर्भवेत्तदा ॥” * ॥
अथ शिवयन्त्रम् । तत्रादौ षट्कोणमण्डलं कृत्वा तदन्तः साध्यनामयुक्तं प्रासादबीजं विलिख्य षट्कोणेषु प्रणवसहितपञ्चाक्षरवर्णान् विलिख्य विवरेषु षडङ्गमन्त्रान् तद्बहिः पञ्च- दलानि विरचय्य तद्दलेषु ॐ ईशानाय नमः ॐ तत्पुरुषाय नमः ॐ अघोराय नमः ॐ सद्योजाताय नमः ॐ वामदेवाय नमः । इति पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् । तद्बहिरष्टदलानि रचयित्वा तद्दलेषु मातृका- घर्णान् लिखेत् । तद्बहिर्वृत्तं त्र्यम्बकेन वेष्टयेत् । एतद्यन्त्रं जपहोमादिना सम्पूज्य धारयेत् । आयुरारोग्यैश्वर्य्यादिसिद्धिर्भवति ॥ * ॥
अथ मृत्युञ्जयस्य यन्त्रम् । “मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं दिग्दलेषु कोणेष्वन्त्यं मनोस्तत् क्षितिभुवनमथो दिक्षु चन्द्रं विदिक्षु । टान्तं यन्त्रं तदुक्तं सकलभयहरं क्षेडभूतापमृत्यु- व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीप्रदं कीर्त्तिदायि ॥” * ॥
अथकालीयन्त्रम् । यामले । “आद्यं बीजं ससाध्यं प्रथमवसुगृहे तद्वहि- श्चाष्टकोणे पूर्ब्बाद्यं चाष्टबीजं तदनु वसुगृहद्बन्द्बके बीजषट्कम् । किञ्जल्कं तत् स्वराढ्यं वसुदलविवरे स्वाहया बीजषट्कं कूर्च्चाभ्यामेव वीतं क्षितिगृहयुगयोरन्तरे यन्त्रराजम् ॥ देवीबीजत्रयं तत् प्रतिदिशमपरं शक्तिबीज- द्बयं तत् कोणे कोणे लिखेद्यस्त्रिजगति स गुरुः शङ्करस्यापि विष्णोः ॥” अथ शान्तिकादौ ताराधारणयन्त्रम् । तदुक्तं फेत्कारीये । “योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया । क्लीवहीनान् दीर्घवर्णान् षट्कोणे विलिखेत्ततः ॥ अष्टपत्रेष्वष्टवर्णान् तद्बहिर्भूपुरद्वयम् । अष्टवज्रं भूपुरे च विलिख्य साधकोत्तमः ॥ सुवर्णपट्टे भूर्ज्जे वा रूप्ये वाप्यथ सुव्रते । विलिखेद्धेमलेखन्या गन्धाष्टकसमन्वितम् ॥ दूर्व्वाकाण्डेन वालिख्य कुशमूलेन वा पुनः ॥” एकवीराकल्पे । “वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् ॥ बध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणम् । स्त्रीणां वामभुजे चैवमन्येषां दक्षिणे भुजे । बन्ध्यापि लभते पुत्त्रं निर्धनो धनवान् भवेत् ॥ इमां रक्षां पुरा बध्वा ज्ञानार्थं गौतमादिभिः । प्रीत्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्खिभिः ॥” अस्यार्थः । योनियुग्मे षट्कोणे । तस्य मध्ये हेमशलाकादिना भूर्ज्जपत्रादौ कुङ्कुमरोचना- रक्तचन्दनजटामांसीनां समांशं विधाय पङ्क्ति क्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखारेफ- मध्ये अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभं पुत्त्रमुत्पादयेति वा अस्य ज्ञानं कुरु कुरु इत्यादि वा साध्यसहितं विलिख्य षट्कोणे क्लीवभिन्नान् दीर्घवर्णान् आ ई ऊ ऐ औ अः इत्येकैकं लिखेत् । तदुक्तम् । “स्वराणां मध्यगं यच्च तच्चतुष्कं नपुंसकमिति ।” अष्टपत्रेष्वष्टवर्णान् । ऐं ह्रीं ॐ ऐं ह्रीं फट् स्वाहेति लिखेत् । तदुक्तम् । “वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा । हृल्लेखा चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः ॥ अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः ॥” अथ यन्त्रलिखनद्रव्यम् । “काश्मीररोचनालाक्षामृगेभमदचन्दनैः । विलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः ॥ भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्म्माल्यसङ्गतम् । विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत् ॥ सौवर्णे राजते पात्रे भूर्जे वा सम्यगालिखेत् । अथवा ताम्रपट्टे वा गुटिकां कृत्य धारयेम् ॥ यावज्जीवं सुवर्णे स्यात् रौप्ये विंशतिवार्षिकम् । भूर्ज्जे द्बादश वर्षाणि तदर्द्ध्वं ताम्रपट्टके ॥” इति तन्त्रसारः ॥ * ॥
अन्यत् कालिकापुराणे ७७ । ७८ । ७९ अध्यायेषु द्रष्टव्यम् ॥ * ॥
अथ यन्त्रसंस्कारः । वामके- श्वरतन्त्रे । “स्नात्वा संकल्पयेन्मन्त्री गुरोरर्च्चनमाचरेत् । पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितम् ॥ तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् । तदुद्धृत्य ततश्चक्रं स्थापयेत् स्वर्णपात्रके ॥ पञ्चामृतेन दुग्धेन शीतलेन जलेन च । चन्दनेन सुगन्धेन कस्तूरीकुङ्कुमेन च ॥ पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् । तोयधूपान्तरैः कुर्य्यात् पञ्चामृतविधिं बुधः ॥ हाटकैः कलसैर्देवीमष्टभिर्व्वारिपूरितैः । कषायजलसम्पन्नैः कारयेत् स्नानमुत्तमम् ॥ स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपाठके । यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचोदयात् ॥ स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्त्र्या चाभिमन्त्रयेत् । अष्टोत्तरशतं देवि ! देवताभावसिद्धये ॥ आत्मशुद्धिं ततः कृत्वा षडङ्गैर्द्देवतां यजेत् । तत्रावाह्य महादेवीं जीवन्यासञ्च कारयेत् ॥ उपचारैः षोढशभिर्महामुद्रादिभिः सदा । फलताम्बूलनैवेद्यैर्देवीं तत्र समर्च्चयेत् ॥ पट्टसूत्रादिकं दद्यात् वस्त्रालङ्कारमेव च । अगुरुं चामरं घण्टां यथायोग्यं महेश्वरि ! । सर्व्वमेतत् प्रयत्नेन दद्यादात्महिते रतः ॥ ततो जपेत् सहस्रञ्च सकलेप्सितसिद्धये । बलिदानं ततः कृत्वा प्रणमेच्चक्रराजकम् ॥ अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् । होमकर्म्मण्यशक्तश्चेत् द्बिगुणं जपमाचरेत् ॥ धेनुमेकां समानीय स्वर्णशृङ्गाद्यलङ्कृताम् । गुरवे दक्षिणां दद्यात् ततो देव्या विसर्ज्जनम् ॥” अस्य प्रयोगः । कृतनित्यक्रियः स्वस्तिवाचन- पूर्ब्बकं सङ्कल्पं कुर्य्यात् । आद्येत्यादि अमुक- गोत्रः श्रीअमुकदेवशर्म्मा अमुकदेवतायाः पूजार्थं अमुकयन्त्रसंस्कारमहं करिष्ये । इति संकल्प्य पञ्चगव्यमानीय हौमितिमन्त्रेणाष्टोत्तर- शतं अभिमन्त्र्य प्रणवेन यन्त्रं तत्र क्षिपेत् । तत उत्तोल्य स्थापयेत् । ततः शीतलजलचन्दन- गन्धकस्तूकीकुङ्कुमैः स्नापयित्वा पञ्चगव्यमानीय हौमिति मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य प्रणवेन पूर्ब्बवत् शोधयित्वा स्नापयेत् । तत्र क्रमः । प्रथमं क्षीरेण स्नापयित्वा धूपं दद्यात् । एवं दध्ना घृतेन मधुना शर्करया च । ततोऽष्टभिः कलसैः कुङ्कुमगोरोचनाचन्दनमिश्रितैस्तोयैः स्नापयेत् । सर्व्वत्र स्नानं मूलमन्त्रेण ततो यन्त्रमुत्तोल्य कुशाग्रेण तत् स्पृष्ट्वा यन्त्रराजाय विद्महे महायन्त्राय धीमहि तन्नो यन्त्रं प्रचो- दयात् । इत्यष्टोत्तरशतमभिमन्त्र्य प्राणप्रतिष्ठां कुर्य्यात् । अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णु- महेश्वरा ऋषय ऋग्यजुःसामानि छन्दांसि चैतन्यं देवता प्राणप्रतिष्ठायां विनियोगः । तद्यथा । आं ह्रीं क्रों यं रं लं वं शं षं सं हौं हं सः अमुकदेवतायाः प्राणा इह प्राणाः । एवं आमित्यादि अमुकदेवतायाः जीव इह स्थितः । एयं आमित्यादि अमुकदेवतायाः सर्व्वे- न्द्रियाणि । एवं आमित्यादि अमुकदेवताया वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा । इति प्राणान् प्रतिष्ठाप्य तत्र प्रकृतदेवतामावाह्य षोडशोपचारैः पञ्चोप- चारैर्व्वा पूजयेत् । ततः पट्टसूत्रादिकं दत्त्वा अष्ठोत्तरशतं अप्त्वा शक्तश्चेत् बलिं दद्यात् । ततोऽष्टोत्तरशतहोमं कृत्वा प्रत्याहुतिसम्पातं दद्यात् । होमाभावे द्बिगुणजपः कार्य्यः । ततो दक्षिणां दत्त्वा अच्छिद्रावधारणं कुर्य्यात् । इति तन्त्रसारः ॥ * ॥
औषधपाकार्थयन्त्राणि यथा, —
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके । कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥ भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते । बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥” इति बालुकायन्त्रम् ॥ “निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे । रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् । अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥” सन्धानं काञ्जिकादि । इति दोलायन्त्रम् ॥ * ॥
“साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च । पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥” इति स्वेदनयन्त्रम् ॥ “अधःस्थाल्यां रसं क्षिप्त्वा निदध्यात्तन्मुखोपरि । स्थालीमूर्द्ध्वमुखीं सम्यक् निरुध्य मृदुमृत्सया ॥ ऊर्द्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः ॥ अधस्ताज्ज्वालयेदग्निं यावत् प्रहरपञ्चकम् । स्वाङ्गशीतं ततो यन्त्राद्गृह्णीयाद्रसमुत्तमम् । विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ॥” इति विद्याधरयन्त्रम् ॥ “बालुकासु समस्ताङ्गं गर्त्ते मूषारसान्विता । दीप्तोपलैः मंवृणुयाद्यन्त्रं भूधरनामकम् ॥” इति भूधरयन्त्रम् ॥ “यन्त्रं डमरुसंज्ञं स्यात्तत् स्थाल्योर्मुद्रिते मुखे ॥” इति डमरुयन्त्रम् । इति भावप्रकाशः ॥ (तथाच । “अन्धमूषा तु कर्त्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मध्ये गम्भीरामारणोचिता ॥” इति अन्धमूषायन्त्रम् ॥ “द्बौ भागौ तु सदुग्धस्य एकावल्मीकमृत्तिका । लोहकिट्टस्य भागैकं श्वेतपाषाणभागिकम् ॥ नरकेशसमं किञ्चित् छागीदुग्धेन पेषयेत् । माषद्बयं दृढं मर्द्द्यं तेन मूषां सुसम्पुटाम् ॥ शोषयित्वा रसं क्षिप्त्वा तत्कल्कैः सन्धि लेपयेत् । रौद्रमूषा समाख्याता सम्यक्पारदसाधिका ॥” इति मूषायन्त्रम् ॥ * ॥
“बालुकापूरितं भाण्डं तन्मध्ये सूतकं क्षिपेत् । रसं मूषागतञ्चैव भाण्डं स्रावेण रोधयेत् ॥ लिप्त्वा मृल्लवणैः सन्धिं पाचयेच्चुल्विकाग्निना । बालुकायन्त्रमेतद्धि योजयेद्रसकर्म्मणि ॥” इति बालुकायन्त्रम् ॥ “तिर्य्यक्कण्ठं काचकुप्या गिलयेत् स्वल्पभाण्डकैः । तिर्य्यक्कृत्वा पचेत् भाण्डं वकयन्त्रमिति स्मृतम् ॥” इति वकयन्त्रम् ॥ “ऊर्द्ध्वाधः संपुटाकारं तन्मध्ये रससंस्थितम् । कवचीयन्त्रमेतद्धि रसादिद्रव्यसाधनम् ॥” इति कवचीयन्त्रम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणाद्यधिकारे ॥ चिकित्सोपयग्यपरयन्त्रविवृतिर्यथा, —
“यन्त्रशतमेकोत्तरमत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ । किं कारणम् । यस्माद्धस्ता- दृते यन्त्राणामप्रवृत्तिरेव तदधीनत्वाद्यन्त्रकर्म्म- णाम् । तत्र मनःशरीरावाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि । तानि षट्प्रका- राणि । तद्यथा । स्वस्तिकयन्त्राणि । सन्दंश- यन्त्राणि । तालयन्त्राणि । नाडीयन्त्राणि । शलाकायन्त्राणि । उपयन्त्राणि चेति ॥ तत्र चतुर्व्विंशतिः स्वस्तिकयन्त्राणि । द्वे सन्दंश- यन्त्रे । द्वे एव तालयन्त्रे । विंशतिर्नाड्यः । अष्टा- विंशतिः शलाकाः । पञ्चविंशतिरुपयन्त्राणि ॥ तानि प्रायशो लौहानि भवन्ति तत्प्रतिरूप- काणि वा तदलाभे । तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तस्मात् तत्सारूप्यादागमादु- पदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् । समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च । सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ॥ तत्र स्वस्तिकयन्त्राण्यष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्षुऋक्षद्वीपिमार्जारशृगाल- मृगैर्व्वारुककाककङ्ककुररचासभासशशघात्यु- लूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णाव- भञ्जननन्दिमुखमुखानि मसूराकृतिभिः कीलै- रवबद्धानि मूलेऽङ्कुशवदावृत्तवारङ्गाण्यस्थि- विनष्टशल्योद्धरणार्थमुपदिश्यन्ते ॥ * ॥
सनिग्रहो- ऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतस्त्वग्मांस- सिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते । तालयन्त्रे द्बादशाङ्गुले मत्स्यतालुवदेकतालद्बि- तालके कर्णनासानाडीशल्यानामाहरणार्थम् । नाडीयन्त्राण्यनेकप्रकाराण्यनेकप्रयोजनान्येक- तोमुखान्युभयतोमुखानि च तानि स्रोतोगत- शल्योद्धरणार्थं रोगदर्शनार्थमाचूषणार्थं क्रिया- सौकर्य्यार्थञ्चेति तानि स्रोतोद्वारपरिणाहानि यथायोगपरिणाहदीर्घाणि च । भगन्दरार्शोऽर्व्वुदव्रणवस्त्युत्तरवस्तिमूत्रवृद्धिद- कोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयत्त्राण्यलावु- शृङ्गयन्त्राणि चोपरिष्टाद्धक्ष्यामः । शलाकायन्त्राण्यपि नानाप्रकाराणि नाना- प्रयोजनानि यथायोगपरिणाहदीर्घाणि च तेषां गण्डूपदशरपुङ्खसर्पफणवडिशमुखे द्वे द्वे एषण- व्यूहनचालनाहरणार्थमुपपदिश्येते । मसूरदल- मात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्ध- रणार्थम् । षट्कार्पासकृतोष्णीषाणि प्रमार्ज्जन- क्रियासु । त्रीणि दर्व्याकृतीनि खल्लमुखानि क्षारौषधप्रणिधानार्थम् । त्रीण्यन्यानि जाम्बव- वदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्व- भिप्रेतानि । नासार्वुदहरणार्थमेकं कोलास्थि- दलमात्रमुखं खल्लतीक्ष्णोष्ठम् । अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रम् । मूत्र- मार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाण- परिमण्डलमिति । उपयन्त्राण्यपि रज्जुवेणिकापट्टचर्म्मान्तवल्कल- लतावस्त्राष्ठीलाश्म-मुद्गर-पाणिपाद-तलाङ्गुलि- जिह्वा-दन्तनखमुख-बालाश्वकटकशाखाष्ठीवन- प्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति । एतानि देहे सर्व्वस्मिन् देहस्यावयवे तथा । सन्धौ कोष्ठे धमन्याञ्च यथायोगं प्रयोजयेत् ॥ यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्त्तन- चालनविवर्त्तनविवरणपीडनमार्गविशोधनविक- र्षणाहरणाञ्चनोन्नमनविनमनभञ्जनोन्मथना- चूषणैषणदारणर्ज्जूकरणप्रक्षालनप्रधमनप्रमा- र्ज्जनानि चतुर्विंशतिः ॥ स्वबुद्ध्या चापि विभजेद्यन्त्रकर्म्माणि बुद्धिमान् । असंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ॥ तत्रातिस्थूलमसारमतिदीर्घमतिह्रस्वमग्राहि विषमग्राहि वक्रं शिथिलमत्युन्नतं मृदुकीलं मृदुमुखं मृदुपाशमिति द्वादश यन्त्रदोषाः । एतैर्दौषैर्विनिर्म्मुक्तं यन्त्रमष्टादशाङ्गुलम् । प्रशस्तं भिषजा ज्ञेयं तद्धि कर्म्मसु योजयेत् ॥ दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः । निर्हरेत्तु शनैः शल्यं शस्त्रयुक्तिव्यपेक्षया ॥ विवर्त्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् । यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्व्वेष्वविकारि चैव ॥” इति सुश्रुते सूत्रस्थाने सप्तमेऽध्याये ॥ * ॥
गोलाध्यायोक्तयन्त्राणि यथा, —
“अथ यन्त्राध्यायो व्याख्यायते । तत्रादौ तदा- रम्भप्रयोजनमाह । दिनगतकालावयवा ज्ञातुमशक्या यतो विना यन्त्रैः । वक्ष्ये यन्त्राणि ततः स्फुटानि संक्षेपतः कति- चित् ॥ गोलो नाडीवलयं यष्टिः शङ्कुर्घटी चक्रम् । त्रापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥” “अथ प्रथमं गोलयन्त्रमाह । अपवृत्तगरविचिह्नं क्षितिजे धृत्वा कुजेन संसक्ते । नाडीवृत्ते बिन्दुं कृत्वा धृत्वाथ जलसमं क्षिति- जम् ॥ रविचिह्नस्य च्छाया पतति कुमध्य यथा तथा विधृते । उडुगोले कुजबिन्द्वोर्मध्ये नाड्यो द्युयाताः स्युः ॥” “अथ नाडीवलयमाह । अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः । भूस्थं ध्रुवयष्टिस्थं चक्रं षष्ट्या निजोदयैश्चाङ्क्यम् ॥ व्यस्तैर्यष्टीभायामुदयेऽर्कं न्यस्य नाडिका ज्ञेयाः । इष्टच्छायासूर्य्यान्तरेऽथ लग्नं प्रभायाञ्च ॥ केनचिदाधारेण ध्रुवाभिमुखकीलकेऽत्र धृते । अथवा कीलच्छायातलमध्ये स्युर्नता नाड्यः ॥” घटिकायन्त्रलक्षणादिकं घटीयन्त्रशब्दे द्रष्टव्यम् ॥ “अथ शङ्कुमाह । समतलमस्तकपरिधिर्भ्रमसिद्धो दन्तिदन्तजः शङ्कुः । तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम् ॥ इति शङ्कुयन्त्रम् ॥ अथ चक्रमाह । चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् । धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्र स्वार्द्धञ्च ॥ तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम् । भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्तः ॥ तत्खार्द्धान्तश्च नता उन्नतलवसंगुणीकृतं द्युद- लम् । द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥” “अथ वेधेन ग्रहज्ञानमाह । “पैत्रर्क्षपुष्यान्तिमवारुणाना- मृक्षद्वयं नेमिगतं यथा स्यात् । दूरेऽन्तरेऽल्पेषुभखेचरौ वा तथात्र यन्त्रं सुधिया प्रधार्य्यम् ॥ नेमिस्थदृट्याक्षगतं प्रपश्येत् खेटञ्च धिष्ण्यस्य च योगताराम् । नेम्यङ्कयोरक्षयुजोस्तु मध्ये येऽंशाः स्थिता भध्नुवको युतस्तैः ॥ प्रत्यक् स्थिते भेऽथ पुरःस्थिते तै- र्होनो ध्रुवः स्यात् खचरस्य भुक्तम् ॥” “अथ चापं तुर्यगोलं चाह । दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तुर्यगोलम् ॥” “अथ फलकयन्त्रार्थमाह । दृङ्मण्डलेऽत्र स्फुटकाल उक्तः सुखेन नान्यैर्यतितं मयातः । सद्गोलयुक्तेर्गणितस्य सारं स्पष्टं प्रवक्ष्ये फलकाख्ययन्त्रम् ॥” “इदानीं यन्त्रलक्षणमाह । कर्त्तव्यं चतुरस्रकं सुफलकं खाङ्का-९० ङ्गुलै- र्विस्तृतं विस्ताराद्द्विगुणा-१८० यतं सुगणकेनायाममध्ये तथा । आधारः श्लथशृङ्खलादिघटितः कार्य्या च रेखा तत- स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते ॥ लम्बं नवत्य-९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य । सूत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया विधेयाः ॥ आधारतोऽधः खगुणा-३० ङ्गुलेषु ज्यालम्बयोगे सुषिरञ्च सूक्ष्मम् । इष्टप्रमाणा सुषिरे शलाका क्षेप्याक्षसंज्ञा खलु सा प्रकल्प्या ॥ षष्ट्यङ्गुलव्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्क्यम् । षष्ट्या घटीनां भगणांश-३६० कैश्च प्रत्यंशकं चाम्बुपलैञ्च दिग्भिः ॥ अग्रे सरन्ध्रा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाङ्क्या ॥” “इदानीं यन्त्रोपकरणमाह । यत् खण्डकैः स्थूलचरं पलाद्यं तद्गोकु-१९ हृत् स्याच्चरशिञ्जिनीह ॥” “इदानीं यष्टिसाधनमाह । वेदाः ४ भवाः ११ शैलभुवो १७ धृतिश्च १८ विश्वे १३ च बाणाः ५ पलकर्णनिघ्नाः । अर्कोद्धृताः स्युः क्रमशः स्वदेशे राश्यर्द्धलभ्यानि हि खण्डकानि ॥ तैः क्रान्तिपाताढ्यरवेर्भुजज्या षष्ट्युद्धृताक्षश्रवणेन युक्ता । दिग्ध्नी कृताप्ता भवतीह यष्टिः सा पट्टिकायां सुषिरात् प्रदेया ॥” “इदानीं यष्टिप्रयोजनमाह । धार्य्यं तथा फलकयन्त्रमिदं यथैव तत्पार्श्वयोर्लगति तुल्यमिनस्य तेजः । छायाक्षजा स्पृशति तत्परिधौ यमंशं तत्रांशके मतिमता तरणिः प्रकल्प्यः ॥ अक्षप्रोतां रविलवगतां पट्टिकां न्यस्य तस्माद्- यष्टेरग्रादुपरि फलकेऽधश्च गोलक्रमेण । यत्नाद्देयश्चरदलगुणस्तत्र या ज्या तयात्र छिन्ने वृत्ते तलगघटिकाः स्युर्नता लम्बकान्ताः ॥” “अथ यष्टियन्त्रमाह । त्रिज्याविष्कम्भार्द्धं वृत्तं कृत्वा दिगङ्कितं तत्र । दत्त्वाग्रां प्राक् पश्चाद्युज्यावृत्तञ्च तन्मध्ये ॥ तत्परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे । त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत् ॥ तावत्या मौर्व्या यद्द्बितीयवृत्ते धनुर्भवेत् तत्र । दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणै- वम् ॥” “इदानीं धीयन्त्रं विवक्षुरादौ तत्प्रशंसामाह । अथ किमु पृथुतन्त्रैर्धीमतो भूरियन्त्रैः स्वकरकलितयष्टेर्दत्तमूलाग्रदृष्टेः । न तदविदितमानं वस्तु यद्दृश्यमानं दिवि भुवि च जलस्थं प्रोच्यतेऽथ स्थलस्थम् ॥ अत्र प्रश्नः । वंशस्य मूलं प्रविलोक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्रयञ्च । यो वेत्ति यष्ट्यैव करस्थयासौ धीयन्त्रवेदी वद किं न वेत्ति ॥” “अथ यष्ट्या ध्रुववेधेन पलभामाह । यष्ट्यग्रमूलसंस्थं विद्ध्वा ध्रुवमग्रमूलयोर्लम्बी । बाहुर्लम्बान्तरभूर्लम्बोच्छ्रायान्तरं कोटिः ॥ कोटिर्द्बादशगुणिता बाहुविभक्ता पलप्रभा ज्ञेया ॥” “इदानीं वंशादिवेधमाह । विद्ध्वैवं वंशतलं दृष्ट्युच्छ्रायाहताद्बाहोः । कोट्या लब्धं ज्ञेयं स्ववंशमध्ये महीमानम् ॥ विद्ध्वाथो वंशाग्रं भूमानं कोटिसंगुणं भक्तम् । दोष्णा वंशोच्छ्रायो दृष्ट्युच्छ्रायेण संयुतोज्ञेयः ॥ उदाहरणम् । पञ्चशक्राङ्गुला १४५ यष्टिरष्टषष्टिर्दृगुच्छ्रयः । षट्करास्तलवेधे दोः कोटिः सप्तदशाङ्गुला ॥ अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः । वंशस्य यस्य तन्मानं चात्मवंशान्तरं वद ॥” “अथ केवलाग्रवेधेनाह । अग्रं विध्वोर्ध्वस्थः पुनरुपविष्टश्च तद्बिद्ध्येत् ॥ निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्च्यविश्लेषः भूमिर्वंशौच्च्यमतः पृथक् पृथक् पूर्ब्बवज्ज्ञेयम् ॥ अत्र प्रश्नः । ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्रं सखे ! वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते । अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्र- वित



Correction: