शब्दकल्पद्रुमः
यन्त्री || [न्] त्रि, यन्त्रविशिष्टः । यन्त्रशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ॥ (यन्त्रयति बध्नातीति । यन्त्रि बन्धने + णिनिः । बन्धनकारकः । यथा, रामायणे । १ । १ । ७६ । “अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्- वरात् । मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृ- च्छया ॥”)