वाचस्पत्यम्
यम || उपरतौ भ्वा० पर० सक० अनिट् यच्छति अयंसीत् उदित् क्त्वा वेट् । यमित्वा यत्वा यत्तः । आ + दीर्घीकरणे आत्म० । उप + विवाहे आत्म० ।
वाचस्पत्यम्
यम || परिवेषणे चु० उ० सक० सेट् वा घटा० । यमयति यामवति अयीयमत् त अययामत् त ।
वाचस्पत्यम्
यम || पु यम—घञ् । “अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता । अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च” इत्युक्ते १ अहिंसादौ तच्च देहमात्रसाध्यम् आवश्यकमवश्यकार्य्यं नित्यं कार्य्यमिति अमरः इन्द्रियादीनां २ संयमने च । यमयति अच् । प्राणिनां शुभाशुभकर्मानुसारेण दण्ड- विधायक ईश्वरनियुक्ते दक्षिणस्थे ३ देवभेदे पु० अमरः । तत्स्वामिकत्वात् ४ काके च । भ्रातृत्वेन यमसम्बन्धिनि ५ शनौ ६ एकगर्भजायमाने यमजे त्रि० मेदि० । ७ द्वित्व- संख्यायां ८ यमदेवताके भरणोनक्षत्रे ज्यो० । दिक्पालयमभेदाः चतुर्दश भविष्यपु० उक्ता यथा “यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवखताय कालाय सर्वभूतक्षयाय च । औडम्बराय दघ्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः” । थोगाङ्गयमाक्ष पात० सू० भा० उक्ता यथा “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो- ऽष्टावङ्गानि” मू० । “यथाक्रमं एतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः भा० । तत्र “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा- यमाः” मू० । “तत्राहिंसा सर्वथो सर्वदा सर्वभूतानामनतिद्रो- हः । उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतया तत्- प्रतिपदानाय प्रतिपाद्यन्ते तदवदातकरणायैवोपादीयन्ते । तथाचोक्तं “स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्त्तमानस्तामेवावदातरूपामहिंसां करोति” । सत्यं यथार्थे वाङ्मनुसे यथादृष्टं यथानुमितं यथाश्रुतं तथा वाङ्मन- श्चेति स्वबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेत् इत्येषा सर्वभूतोप कारार्थं प्रवृत्ता न भूतोपघाताय यदि चैवमप्यमिधीय माना मूतोपघातपरैव स्यान्न सत्यं भवेत् पापमेव भवेत् तेन पुण्याभासेन पुण्यप्रतिरूपकेन कष्टं तमः प्राप्नुयात् तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् । स्तेयमशास्त्र पूर्वकं द्रव्याणां परतः स्वीकरणं तत्प्रतिषेधः पुन- रस्पृहारूपमस्तेयमिति । ब्रह्मचर्य्यं गुप्तेन्द्रियस्योपस्थस्य संयमः । विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शना दस्वीकरणमपरिग्रह इत्येते यमाः” भा० । गारुडे तु तस्य दशविधत्वमुक्तं यथा “ब्रह्मचर्य्ये दया- क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसाऽस्तेय माधुर्य्यं दमश्चैते यमाः स्मृताः” १०५ अ० ।
शब्दकल्पद्रुमः
यम || औ उ विरतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-अनिट् । क्त्वावेट् ।)
औ, यन्ता । उ, यमित्वा यन्त्वा । विरतिर्निवृत्तिः । यच्छति पापात् साधुः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
यम || क मि परिवेषणे । तदभावे । इति कवि- कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
क मि, यमयति यामयति । परिवेषणं अन्नादेर- र्पणम् । वेष्टनमित्येके । विषत्यव्याप्तावित्यस्य रूपमिति रमानाथः । केचित्तु परिवेषण एवायं मानुबन्धः । यमयत्यन्नं द्बिजाय गृही । अन्यत्र नियामयति संयामयति इत्याहुः । अन्ये तु अपरिवेषण एवायं मानुबन्धः । ‘नियमयति विमार्गप्रस्थितानान्तु दण्डम् ।’ इति शाकुन्तले । परिवेषणे तु यामयत्यन्नं द्विजाय गृही इत्याहुः । तेन उभयस्य प्रामाणिकत्वादुभयत्र विकल्प- ज्ञापनार्थञ्चानुबन्धः कृतः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
यमः || त्रि (यच्छति एकत्र गर्भाशये निरतो भवतीति । यम् + अच् ।)
यमजः । इति मेदिनी । मे, २३ ॥ तयोर्ज्येष्ठत्वनिरूपणं यथा, “बहिर्वर्णेषु चारित्राद्यमयोः पूर्व्वजन्मतः । यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठं प्रतिष्ठितम् ॥ जन्मप्राथम्यात् ज्यैष्ठं यमयोः न तु निषेक- प्राथम्यात् जन्मप्राथम्यसन्देहे मुखदर्शनप्राथ- म्यत् ।” इति उद्वाहतत्त्वम् ॥ (यथा, —
“बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ । यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ ॥” इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥ अनयोरेकस्य वृद्धिरपरस्य क्षीणताकथमित्यत आह । “कर्म्मात्मकत्वाद्विषमांशभेदात् शुक्रासृजं वृद्धिमुपैति कुक्षौ । एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः ॥” इति चरके शारीरस्थाने द्बितीयेऽध्याये ॥)
शब्दकल्पद्रुमः
यमः || पुं, (यमयति नियमयति जीवानां फलाफल- मिति । यम् + अच् ।)
दक्षिणदिक्पालः । तत्पर्य्यायः । धर्म्मराजः २ पितृपतिः ३ सम- वर्त्ती ४ परेतराट् ५ कृतान्तः ६ यमुनाभ्राता ७ शमनः ८ यमराट् ९ कालः १० दण्डधरः ११ श्राद्धदेवः १२ वैवस्वतः १३ अन्तकः १४ । इत्यमरः । १ । १ । ६१ ॥ धर्म्मः १५ धर्म्मराट् १६ जीवितेशः १७ महिषध्वजः १८ औडम्बरः १९ दण्डधारः २० कीनाशः २१ दध्नः २२ महिष- वाहनः २३ शीर्णपादः २४ भीमशासनः २५ कङ्कः २६ हरिः २७ । इति शब्दरत्नावली ॥ कर्म्मकरः २८ । इति जटाधरः ॥ * ॥
चतुर्द्दश- यमतर्पणं यथा, —
“यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्द्दशीम् । यमुनायां विशेषेण नियतस्तर्पयेद्यमान् ॥ यमाय धर्म्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥ औडम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्यात् जला- ञ्जलीन् । संवत्सरकृतं पापं तत्क्षणादेव नश्यति ॥” इति तिथ्यादितत्त्वधृतभविष्यपुराणवचनम् ॥ तस्योत्पत्तिर्यथा, —
“संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोऽर्कः संज्ञां निष्ठुरमब्रवीत् ॥ मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे ! प्रजासंयमनं यमम् ॥” मार्कण्डेय उवाच । “ततस्तस्यास्तु संजज्ञे भर्त्तृशापेन तेन वै । यमश्च यसुना चेयं प्रख्याता सुमहानदी ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ७७ अः ॥ पुण्यात्मनां सम्बन्धे तस्य रूपं यथा, —
“तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् । भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः । शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ स्वर्णयज्ञोपवीती च स्मेरचारुतराननः । किरीटी कुण्डली चैव वनमालाविभूषितः ॥” पापिनां सम्बन्धे तस्य रूपं यथा, —
“त्रिंशद्योजनदीर्घाङ्गो वापीसदृशलोचनः । धूम्रवर्णो महातेजाः प्रलयाम्भोधरध्वनिः ॥ तृणाधिराजलोमां च ज्वलदग्निशिखाग्रवत् । नासारन्ध्रस्फुरच्छ्वासस्वनैर्ज्जितमहानिलः ॥ सुदीर्घदशनश्रेणिः सूर्पोपमनखावलिः । प्रचण्डमहिषारूढः संदष्टदशनच्छदः ॥ दण्डहस्तश्चर्म्मवासा भ्रूकुटीकुटिलाननः ॥” इति पाद्मे क्रियायागसारे २२ अध्यायः ॥ अस्यानधिकारो यथा, —
“प्रोवाच धर्म्मं यदहं ब्रवीमि कार्य्यं त्वया तत् खलु धर्म्मराज ! ॥ ब्रह्मोवाच । ये भक्ताः पुण्डरीकाक्षे कर्म्मणा मनसा गिरा । स्वकर्म्मनिरता दान्ता न नियम्या हि ते त्वया ॥ कृष्णः संपूजितो यैस्तु यैः कृष्णः समुपासितः । यैश्च नित्यं स्मृतः कृष्णो न ते त्वद्बिषयोपगाः ॥ नमः कृष्णाच्युतानन्तं वासुदेवेत्युदीरितम् । यैर्भावभावितो धर्म्म ! न ते त्वद्बिषयोपगाः ॥ दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति । श्रद्धापुरःसरैर्धर्म्म ! न ते त्वद्विषयोपगाः ॥ उत्तिष्ठद्भिः स्वपांद्भश्च व्रजद्भिश्च जनार्दनः । यैः स्मृतस्तु सदा धर्म्म ! न ते त्वद्बिषयोपगाः ॥ सर्व्ववाधासु ये कृष्णं संस्मरन्त्युच्चरन्ति च । तद्भावभाविनो ये च न ते त्वद्बिषयोपगाः ॥ स एव धाता सर्व्वस्य तन्नियोगकरा वयम् । यमसंयमने त्यक्तः सोऽस्मत्संयमको हरिः ॥” इति वह्निपुराणे नरसिंहप्रादुर्भावाध्यायः ॥ अपि च । ब्राह्मण उवाच । “यत् कृत्वा सुमहत् पुण्यं धर्म्माधर्म्मविनिणये । प्रमाणं त्वं हि लोकानां फलं मे ब्रूहि तद्- यम् ! ॥” यम उवाच । यमो यम इति श्रुत्वा वृथा ह्युद्विजते जनः । आत्मा च यमितो येन न तस्यैव यमः स्मृतः ॥ आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् । ध्यानं प्रसादो माधुर्य्यं सन्तोषश्च यमा दश ॥ यमैश्च नियमैश्चैव यः करोत्यात्मसंयमम् । स चादृष्ट्वा तु मां याति परं ब्रह्म सनातनम् ॥” इति तत्रैव यमशर्म्मिलोपाख्यानम् ॥ * ॥
सावित्रीकृतं यमाष्टकं स्तोत्रं यथा, — सावित्र्युवाच । “तपसा धर्म्ममाराध्य पुष्करे भास्करः पुरा । धर्म्मांशं यं सुतं प्राप धर्म्मराजं नमाम्यहम् ॥ १ ॥ समता सर्व्वभूतेषु यस्य सर्व्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ २ ॥ येनान्तश्च कृतो विश्वे सर्व्वेषां जीविनां परम् । कर्म्मानुरूपकाले च तं कृतान्तं नमाम्यहम् ॥ ३ ॥ बिभर्त्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे । नमामि तं दंण्डधरं यः शास्ता सर्व्वदेहिनाम् ॥ ४ ॥ विश्वे च कलयत्येव यः सर्व्वायुश्च सन्ततम् । अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ॥ ५ ॥ तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः । जीविनां कर्म्मफलदस्तं यमं प्रणमाम्यहम् ॥ ६ ॥ स्वात्मारामश्च सर्व्वज्ञो मित्रः पुण्यकृतां भवे । पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ ७ ॥ यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा । यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ॥ ८ ॥ इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां विष्णुभजनं कर्म्मपाकमुवाच ह ॥ इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्व्वपापात् प्रमुच्यते ॥ महापापी यदि पठेत् नित्यं भक्त्या च नारद ! । यमः करोति तं शुद्धं कायव्यूहेन निश्चितम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २६ अध्यायः ॥ * ॥
पारिभाषिकयमदन्ता यथा, —
“कार्त्तिकस्य दिनान्यष्टावष्टाग्रहायणस्य च । यमस्य दशना एते लघ्वाहारी स जीवति ॥” इति वैद्यकम् ॥ * ॥
(“पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः । मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ॥ यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्यायः ॥ अस्य शापवृत्तान्तं शापान्तवृत्तान्तञ्च यम- राजशब्दे द्रष्टव्यम् ॥ * ॥
)
शरीरसाधना- पेक्षनित्यकर्म्म । इत्यमरः । २ । ७ । ४९ ॥ “उपायान्तरनिरपेक्षं शरीरमात्रसाध्यं नित्यं यावज्जीवमवश्यकार्य्यं यत्कर्म्म सत्यास्तेयादि तद्- यमः । यमेरल् । ‘अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता । अस्तेयमिति पञ्चैते यमाश्चैव व्रतानि च ॥’ इति मनुः ।” इति तट्टीकायां भरतः ॥ स च अष्टाङ्गयोगान्तर्गताङ्गविशेषः । स तु दशविधो यथा, —
“ब्रह्मचर्य्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता । अहिंसास्तेयमाधुर्य्यं दमश्चैते यमाः स्मृताः ॥” इति गारुडे १०९ अध्यायः ॥ * ॥
स च पञ्चविधो यथा, —
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ । यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् ॥” इति तत्रैव २३० अध्यायः ॥ “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहा यमाः ।” इति पातञ्जले साधनपादे । ३० ॥ यच्छति निय- च्छति इन्द्रियग्राममनेनेति । यम + घञ् ।)
संयमः ॥ यथा, अमरः । ३ । २ । १८ । “वियामो वियमो यामो यमः संयामसंयमौ ॥” काकः । शनिः । इति मेदिनी । मे, २३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३० । “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥” “अन्तर्यच्छतीति यमः ।” इति तद्भाष्ये शङ्करा- चार्य्यः ॥)