संस्कृत-शब्दकोशः

यमकीट यमघण्ट

यमकोटि

वाचस्पत्यम्

यमकोटि ||‍ पुंस्त्री० भूगोलस्य चतुर्थपादान्तरिते लङ्कातः पूर्वस्यां स्थितायां देवनिर्मितायां पुर्य्याम् “लङ्का कुमध्ये यमकोटिरस्याः प्रागिंति सिद्धान्तशिरोमणिः ।


शब्दकल्पद्रुमः

यमकोटिः || स्त्री लङ्कायाः पूर्ब्बं पृथिव्याश्चतुर्थभागे देशविशेषः । यथा, —
“लङ्का कुमध्ये यमकोटिरस्याः प्राक्पश्चिमे रोमकपत्तनञ्च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ॥” इति सिद्धान्तशिरोमणिः ॥



Correction: