संस्कृत-शब्दकोशः

यमानिका यमान्तक

यमानी

वाचस्पत्यम्

यमानी ||‍ स्त्री यच्छति षन्धिमान्द्यमनया यम—करणे ल्युट् पृषो० आत्त्वम् । १ अजमोदायाम् शब्दमा० स्वार्थे क । यमानिका तत्रैव स्त्री ।


शब्दकल्पद्रुमः

यमानी || स्त्री (यच्छति विरमति निवर्त्तते अग्नि- मान्द्यमनयेति । यम + करणे ल्युट् । ङीष् । पृषोदरादित्वात् साधुः ।)
यमानिका । इति शब्दरत्नावली ॥ (यथास्याः पर्य्यायः । “यमानी दीपको दीप्यो भूतिकश्च यमानिका ॥” इति वैद्यकरत्नमालायाम् ॥)



Correction: