शब्दकल्पद्रुमः
यमान्तकः || पुं, (यमस्यान्तकः । मृत्युञ्जयत्वादेवास्य तथात्वम् ।)
शिवः । इति शब्दरत्नावली ॥ (यमश्च अन्तकश्च तौ इति विग्रहे । वैवस्वत- कालौ । यथा, महाभारते । २ । १७ । १५ । “तेजसा सूर्य्यसङ्काशः क्षमया पृथिवीसमः । यमान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥” “यमो वैवस्वतः अन्तकः कालः ।” इति तट्टी- कायां नीलकण्ठः ॥)