संस्कृत-शब्दकोशः

ययु यवक

यव

वाचस्पत्यम्

यव ||‍ पु० यु—अच् । १ स्वनामख्याते शूकधान्यभेदे अमरः । “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम् । मदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः” इति मीमांसा । अङ्गु- लिस्थे यवाकारे २ रेखाभेदे सामुद्रकम् तत् फलमुक्तं तत्रैव “तर्जनीमूलसंपृक्तौ यवौ पुत्रार्थदा क्रमात् । मध्वमायां यवश्चैवाङ्गुष्ठेऽपूर्वधनप्रदः । मध्यमायां यदि यवो दृश्यते च सुशोभनः । तदान्यसञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके यवे । यस्यापि चक्रमङ्गष्ठे यवपूर्णञ्च दृश्यते । तदा पितामहादीनामर्जितं लमते धनम्” इति सामुद्रकम् । ३ षट्सर्षपात्मके परिमाणभेदे शब्दच० ।


शब्दकल्पद्रुमः

यवः || पुं, (यूयते अम्भसा इति । यु मिश्रणे + अप् ।)
स्वनामख्यातशूकधान्यम् । तत्पर्य्यायः । सित- शूकः २ । इत्यमरः । २ । ९ । १५ ॥ शितशूकः ३ । इति शब्दरत्नावली ॥ मेध्यः ४ दिव्यः ५ अक्षतः ६ कञ्चुकी ७ धान्यराजः ८ तीक्ष्णशूकः ९ तुरग- प्रियः १० शक्तुः ११ महेष्टः १२ पवित्रधान्यम् १३ । तस्य गुणाः । कषायत्वम् । मधुरत्वम् । सुशीतलत्वम् । प्रमेहपित्तकफापहारकत्वञ्च । अशूकमुण्डयवगुणाः । बलप्रदत्वम् । वृष्यत्वम् । नृणां बहुवीर्य्यपुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “यवः कषायमधुरो बहुवातशकृद्गुरुः । रूक्षः स्थैर्य्यकरः शीतो मूत्रमेदकफापहः ॥” इति राजवल्लभः ॥ * ॥
(अपि च । “यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी । व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातबर्च्चाः ॥ स्थैर्य्याग्निमेधा स्वरवर्णकृच्च स पिच्छिलः स्थूलविलेखनश्च । मेदो मरुत्तृढरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥ एभिर्गुणैर्हीनतरांस्तु किञ्चिद्- विद्याद् यवेभ्योऽतियवान् विशेषैः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ “रूक्षः शीतो गुरुः स्वादुर्वहुवातशकृद्यवः । स्थैर्य्यकृत् सकषायस्तु बल्यः श्लेष्मविकारनुत् ॥ रूक्षः कषायानुरसो मधुरः कफपित्तहा । मेदःक्रिमिविषघ्नश्च वल्यो वेणुयवः स्मृतः ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥ “क्वचिद्बाक्यशेषादपि शक्तिग्रहः यथा यवपदस्य कङ्गुप्रभृतौ म्लेच्छानां दीर्घशूके च शिष्टानां व्यवहारादेकमात्रशक्तेः परिच्छेत्तुमशक्यत्वात् नानार्थत्वस्य चान्याय्यत्वात् यवमयश्चरुर्भवतीति श्रुतौ यवपदस्यार्थ सन्देहे । ‘वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥’ इति विध्यर्थाकाङ्क्षया प्रवर्त्तमानाद्बाक्यशेषाद्दीर्घ- शूक एव यवपदस्य शक्तिग्रहः ।” इति शब्दशक्ति- प्रकाशिकायां नैमित्तिकर्संज्ञायाम् ॥ * ॥
हविष्ये यवानामेव मुख्यत्वम् । यथा, —
“हविष्येषु यवा मुख्यास्तदनु व्रीहयः स्मृताः । माषकोद्रवगौरादिसर्व्वालाभेऽपि वर्ज्जयत् ॥” इति कत्यायनसंदिता । ९ । १० ॥ नवयवागमे तैरवश्यं श्राद्धं कार्य्यं अकरणे प्रत्यवायश्रवणात् । यथा, —
“नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्व्वीत नवशस्यागमे तथा ॥ इति विष्णुपुराणात् वक्षमाणबहुतरवचनेषु नवान्नश्रुतेः नवान्नागमत्वेनैव निमित्तं लाघवात् । अमावस्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्ण- त्रयोदशी व्रीहियवपाकौ च । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः । श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥” इति श्राद्धतत्वे नवान्नश्राद्धे ॥)
परिमाणविशेषः । स तु चतुर्धान्यमानरूपः । इति शुभङ्करः ॥ षट्सर्षपपरिमाणात्मकश्च । यथा, —
“जालान्तरगते भानौ यच्चानु दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः । षट्सर्षपैर्यवस्त्वेको गुञ्जैका तु यवैस्त्रिभिः ॥” इति शब्दचन्द्रिका ॥ * ॥
अङ्गुलिस्थयवाकाररेखाविशेषः । यथा, —
“तर्ज्जनीमूलसंपृक्तौ यवौ पुत्रार्थदौ क्रमात् । मध्यमायां यवश्चैवाङ्गुष्ठेऽपूर्व्वधनप्रदः ॥” अपि च सामुद्रके । “मध्यमायां यदि यवो दृश्यते च सुशोभनः । तदान्यसञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके यवे ॥ यस्यापि चक्रमङ्गुष्ठे यवपूर्णञ्च दृश्यते । तदा पितामहादीनामर्ज्जितं लभते धनम् ॥” (पूर्ब्बपक्षः । यथा, वाजसनेयसंहितायाम् । १४ । ३१ । “एकत्रिंशतास्तु वत प्रजा असृज्यन्त यवा- श्चायवाश्चाधिपतय आसन् ।” “यवाः पूर्ब्ब- पक्षाः अयवाः अपरपक्षाः ।” इति तट्टी- कायां महीधरः ॥)



Correction: